Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 33
________________ न्यायावतारः प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥ १ ॥ न्यायावतारविवृतिः [ अंशता गृहीता ] अवियुतसामान्यविशेषदेशिनं वर्धमानमानम्य | न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते || 'प्रमाणेत्यादि' अनेन च तादात्म्य तदुत्पत्तिलक्षणसंबन्धविकलतया ध्वनेर्बहिरर्थं प्रति प्रामाण्यायोगाद् अभिधेयादि सूचनद्वारोत्पन्नार्थसंशयमुखेन श्रोतारः श्रवणं प्रति प्रोत्सान्ते इति धर्मोत्तरो मन्यते । ... अर्चंटस्तु आह । न श्रावकोत्साह कमेतत् प्रामाण्याभावात् तेषां चाप्रमाणादप्रवृत्तेः । स्व आत्मा स्वरूपं, परोऽर्थः । तौ आभासयितुं प्रकाशयितुं शीलं यस्य तत् । तथा ज्ञायते निर्णीयते तत्त्वं येन तत् ज्ञानम् । बाध्यते अनेनेति बाधः, विपरीतार्थो - पस्थापक प्रमाणप्रवृत्तिरिति यावत् । तेन विशेषेण वर्जितं रहितं यत् ज्ञानं तत् प्रमाणमिति संटकः । स्वपराभासीत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ते ज्ञानवादिनो बौद्धविशेषाः ; ये च पराभास्येव मीमांसकनैयायिकादयः ते निरस्तास्ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकम् इत्याचक्षीरन् । तदयुक्तम् । ज्ञेयार्थाभावे ज्ञानाभावप्रसङ्गात् । ...पराभास्यपि स्वप्रकाशाभावात् अभिदधीरन् तदप्यसम्बद्धम् । स्वप्रकाशाभावे परप्रकाशायोगात् ; न हि प्रदीपः स्वरूपमनुद्योतयन् घटाने व्याप्रियते । तत्र सिद्धान्तप्रसिद्धपारमार्थिकप्रत्यक्षापेक्षयाऽक्षशब्दो जीवपर्यायतया प्रसिद्धः । इह तु व्यवहारिकप्रत्यक्ष प्रस्तावाद् अक्षध्वनिरिन्द्रियवचनो गृह्यते ततश्च अक्षं प्रति गतं प्रत्यक्षं यदिन्द्रियमाश्रित्य उज्जिहीते अर्थ साक्षात्कारिज्ञानं तत् प्रत्यक्षमित्यर्थः । ... ततश्च सर्वज्ञानानां यत् स्वरूपसंवेदनं तदपि प्रत्यक्षमित्युक्तं भवति । तत्रापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसद्भावादिति । अक्षेभ्यः परतो वर्तते इति परोक्षमक्षव्यापारनिरपेक्षं मनोव्यापारेण असाक्षादपरिच्छेदकं यत् ज्ञानं तत्परोक्षमिति भावः । द्विधैव ... द्वाभ्यामेव प्रकाराभ्यां मेयस्य ग्राह्यार्थस्य विनिश्चयात् स्वरूपनिर्णयात् ॥ १॥ ... Jain Education International Nyāyāvatāra-vivrtiḥ [Extracts] Translation with notes: 1. Pramāna (valid knowledge) is the knowledge which illumines itself and other things without any obstruction: it is divided as ... For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78