Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 39
________________ Translation with Notes प्रमेयपरिच्छेदकज्ञानप्रादुर्भावनं यथाऽऽत्मनोऽर्थ निर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधैविद्वद्भिः परस्मै अर्थ : प्रयोजनं येन तत् परार्थं मीयतेऽनेनेति मानम्। ननु च यदि निश्चयोत्पादनं परार्थमानं तदा ज्ञानमपि परप्रत्यायनाय व्याप्रियमानं परार्थं प्राप्नोतीत्याह। वाक्यं परार्थं न ज्ञानं तस्यैव आनन्तर्येण व्यापारात् परप्रयोजनमात्रत्वाच्च इतरस्य तु व्यवहितत्वात् स्वपरोपकारित्वात् च । कथं वचनमज्ञानरूपं प्रमाणमित्याह । तदुपचारतस्तस्य ज्ञानस्य उपचारोऽतद्रूपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् ततः इदम् उक्तं भवति प्रतिपाद्यगतमुत्पत्स्यमानं यत् ज्ञानं तदव्यवहितकारणत्वात् वचनमपि उपचारेण प्रमाणमित्युच्यते ।। १०॥ 10. Like the decision for oneself, the production of a decision in others is called by the learned 'knowledge for the sake of others (parārthamāna): speech is designated as such by metaphor. .. · Knowledge is of two kinds : (1) knowledge for one's own self (svārtha māna), and (2) knowledge for the sake of others (parārtha māna). The second is defined as that which produces decision or belief (niscaya) in others, i.e., which enables others to ascertain the nature of things. The "word" or "speech" (Sabda) or vākya) comes under this class, that is, it is knowledge for the sake of others, for it produces decision in others, it is true the "word" itself is not knowledge, but being the medium through which knowledge is conveyed to others, it is figuratively identified with knowledge. प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात् परार्थत्वं द्वयोरपि ॥ ११ ॥ प्रत्यक्षेणापि अनुमानेनेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायनात् परार्थत्वं प्रतिपाद्यप्रयोजनत्वं द्वयोरपि प्रत्यक्षानुमानयोस्तुल्यकारणत्वान्नानुमानस्यैवैकस्येत्यभिप्रायः । ... तद्यथाऽनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थ मनुमानम् तथा प्रत्यक्षप्रतीतोऽपि परार्थं प्रत्यक्षं परप्रत्यायनस्य तुल्यत्वात् वचनव्यापारस्यैव भेदात् । तथाह्यनुमानप्रतीतं प्रत्यायन्नेवं वचनयति। अग्निरत्र धूमात् । यत्र यत्र धूमस्तत्र तत्राग्निः । यथा महानसादौ। वैधर्येण वा अग्न्यभावे न क्वचिद् धूमो यथा जलाशयादौ। तथा च धूमोऽयं तस्मात् धूमादग्निरत्रेति । ... प्रत्यक्षप्रतीतं पुनर्दर्शयन् एतावद्वक्ति। पश्य राजा गच्छति। ततश्च वचनात् विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्य. अनुमेयप्रत्यक्षार्थ विषया यतः प्रतीतिरुल्लसत्यतो द्वयोरपि परार्थता इत्याह च । परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीतिप्रतिपादकस्य प्रत्यक्षानुमाननिर्णीतार्थप्रकाशनकारणत्वादित्यर्थः। एतेन पूर्वकारिकोक्तोपचारकारणं : च लक्षयति ।। ११ ॥ 11. Perception and inference having disclosed objects with which we are familiar and they being the means of communication to other people, both of them are knowledge for the sake of others." Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78