Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 50
________________ न्यायावतारः वैधयेणात्र दृष्टान्तदोषा न्यायविदीरिताः। साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥ २५ ॥ साध्याभावः साधनाभावव्याप्तौ दर्शयितुमभिप्रेयते यस्मिन् तद् वैधर्म्यम् । तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थ साध्यसाधनयुग्मानां गम्यगमकोभयानाम् अनिवृत्तेः अविवर्तनात्, चशब्दस्य व्यवहितप्रयोगत्वात् संशयाच्च निवृत्तिसंदेहाच्चेत्यर्थः । तदनेन षड् दृष्टान्ताभासाः सूचिताः । तद्यथा साध्याव्यतिरेकी(१), साधनाव्यतिरेकी (२), साध्यसाधनाव्यतिरेकी (३), तथा सन्दिग्धसाध्यव्यतिरेक: (४), सन्दिग्धसाधनव्यतिरेकः (५), सन्दिग्धसाध्यसाधनव्यतिरेकश्चेति (६)। तत्र साध्याव्यतिरेकी यथा, भ्रान्तमनुमानं प्रमाणत्वाद् इत्यत्र वैधर्म्यदृष्टान्तो यत् पुनर्भ्रान्तं न भवति न तत् प्रमाणं तद्यथा स्वप्नज्ञानमिति स्वप्नज्ञानाद् भ्रान्ततानिवृत्तेः साध्याव्यतिरेकित्वमिति । साधनाव्यतिरेकी यथा, प्रत्यक्षं निर्विकल्पक प्रमाणत्वादिति । अत्र वैधHदृष्टान्तो यत् पुनः सविकल्पकं न तत् प्रमाणं तद्यथाऽनुमानमनुप्रमाणताऽनिवृत्तेः साधनाव्यतिरेकित्वम् । उभयाव्यतिरेकी यथा, नित्यानित्यः शब्दः सत्त्वाद् इत्यत्र वैधर्मादृष्टान्तो यः पूनर्न नित्यानित्यः स न सन तद्यथा घट: घटाभयस्यापि अव्यावत्तेरुभयाव्यतिरेकित्वमिति । तथा सन्दिग्धसाध्यव्यतिरेकः, असर्वज्ञा अनाप्ता वा कपिलादयः आर्यसत्यचतुष्टयाप्रतिपादकत्वादिति । अत्र वैघHदृष्टान्तः यः पुनः सर्वज्ञ आप्तो वा असौ आर्यसत्यचतुष्टयं प्रत्यपीपदत् तद्यथा शौद्धोदनिरिति । अयं च साध्यव्यतिरेकी वा आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणबाधितत्वेन तद्भाषकस्य असर्वज्ञतानाप्ततोपपत्तेः ... ... तस्मात् शौद्धोदनेः सकाशाद् असर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः सन्दिग्धेति सन्दिग्धसाध्यव्यतिरेकित्वमिति । सन्दिग्धसाधनव्यतिरेको यथा, अनादेयवाक्यः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वादित्यत्र वैधर्म्य दृष्टान्तो यः पुनः आदेयवाक्यो न स रागादिमान् तद्यथा सुगत इति ... सुगतात् रागादिमत्त्वव्यावृत्तिसंशयात् सन्दिग्धसाधनव्यतिरेकित्वमिति । सन्दिग्धसाध्यसाधनव्यतिरेको यथा, वीतरागा: कपिलादयः करुणास्पदेषु अपि अकरुणापरीतचित्ततया दत्तनिजकमांसशकलत्वादिति । अत्र वैधर्म्यदृष्टान्तो ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः तद्यथा बोधिसत्त्वा इत्यत्र साधनसाध्यधर्मयोर्बोधिसत्त्वेभ्यो व्यावृत्तिः सन्दिग्धा ततः प्रतिपादितप्रमाणवैकल्यात न ज्ञायते किं ते रागादिमन्तः उत वीतरागास्तथाऽनुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा अतः सन्दिग्धसाध्यसाधनव्यतिरेकित्वमिति । परैः परेऽपि दृष्टान्ताभासास्त्रयो विमृश्यभाषितया दर्शितास्तद्यथाऽव्यतिरेकोऽप्रदर्शितव्यतिरेकोऽविपरीतव्यतिरेकश्चेति । ते अस्माभिः अयुक्तत्वात्तु दर्शयितव्याः । तथाहि अव्यतिरेकस्तैर्दशितो यथा, अवीतरागः कश्चिद् विवक्षितः पुरुषो वक्तृत्वादित्यत्र वैधर्म्यदृष्टान्तो यः पुनः वीतरागो न स वक्ता यथोपलखण्ड इति ; यद्यपि किलोपलखण्डाद् उभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरेका सिद्धेः अव्य तिरेकित्वमिति । ... तथाहि अप्रदर्शित Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78