Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 58
________________ 26 न्यायावतारः न विद्यते आत्मा स्वरूपमस्येति अनात्मक: ... क्षित्यादिस्वरूपो न भवति इत्यर्थः ।... स्वान्यनिर्भासीत्यनेन प्रागुक्तस्वपराभासिप्रमाणविशेषवन्मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च ज्ञानमात्रवादिनः प्रतिक्षिपति । कथं ज्ञानज्ञानिनोः कथंचिदभेदेन तदुक्तन्यायाविशेषादिति कर्ता भोक्तति विशेषणद्वयेन सांख्यमतं विकुट्टयति । विवृत्तिमानित्यमुना तु एकान्तनित्यं अपरिणामिनं नैयायिकवैशेषिकादिप्रकल्पितं प्रमातारं निरस्यति सर्वथाऽविचलितरूपस्य अर्थग्रहणपरिणामानुपपत्तेः ।। ३१ ॥ ___31. The spirit (soul or jiva) is the knower, doer and enjoyer, illumines itself and others, undergoes changes of condition, is realised only in self-consciousness and is different from the earth, etc. The soul (atman or jiva) has knowledge and so is different from knowledge itself. As an enjoyer and doer the soul of the Jaina philosophy is different from that of the Sāṁkhya philosophy. The soul of the Jainas is described as undergoing changes of condition. In this respect it is different from that of the Nyāya and Vaiśeşika philosophy. प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका । सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥ ३२ ॥ कृतिरियं श्रीसितपट्टसिद्धसेन दिवाकरस्य ॥ प्रमाणानि प्रत्यक्षादीनि आदिशब्दान्नयपरिग्रहः। तेषां व्यवस्था प्रतिनियतलक्षणादिरूपा मर्यादा सा इयमनन्तरोक्तस्थित्या प्रकीर्तितेति। ... सर्वसंव्यवहर्तृणां लौकिकतीथिकभेदभिन्नसमस्तव्यवहारवतां प्रसिद्धापि रूढापि तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसंगात् । ... प्रकीर्तिता संशब्दिता अव्युत्पन्न विप्रतिपन्नव्यामोहापोहायेति गम्यते ॥ ३२ ॥ स्याद्वादकेसरिसुभीषणनादभीतेरुत्तस्तलोलनयनान् प्रपलाय्यमानान् । हे दुर्नयाश्रितकुतीथिमृगाननन्यत्राणान् विहाय जिनमेत्य तमाश्रयध्वम् ।। १ ॥ भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया। मोहादतो यदिह किंचिदभूदसाधु तत् साधवः कृतकृपा मयि शोधयन्तु ।। २ ।। न्यायावतारविवृति विधिना विधित्सोः सिद्धः पुन र्य इह पुण्यचयस्ततो मे। नित्यः परार्थकरणोद्यतमाभवान्ताद् भूयाज्जिनेन्द्रमतलपटमेव चेतः ।। ३ ॥ इति न्यायावतारविवृतिः समाप्ता। कृतिरियं सितपट्ट श्रीसिद्धसेनदिवाकरव्याख्यानकस्य तर्कप्रकरणवृत्तेरिति । 32. This system of pramāna, etc., is beginningless and endless; and though familiar to all persons in every day practice it is yet explained here. This shows that the world as conceived by the Jainas is eternal. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78