Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 48
________________ 16 . न्यायावतारः साधम्र्येणात्र दृष्टान्तदोषा न्यायविदीरिताः। अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥ २४ ॥ दृष्टान्तदोषा दृष्टान्ताभासा इत्यर्थः । ... साध्यं गम्यम् आदिशब्दात् साधनोभयपरिग्रहः । तद्विकलास्तच्छ्न्या आदिशब्दात् सन्दिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते । किंभूता एते इत्याह । अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्च तेभ्य उत्था उत्थानं येषां ते अपलक्षणहेतूत्थाः । इदं च प्रायकं विशेषणं, सम्यग्हेतावपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेः यथा नित्यानित्यः शब्दः श्रावणत्वात् घटवदिति । तत्र साध्यविकलो यथा, भ्रान्तम् अनुमानं प्रमाणत्वात् प्रत्यक्षवत् प्रत्यक्षस्य भ्रान्तताविकलत्वात्... । साधनविकलो यथा, जाग्रत्संवेदनं भ्रान्तं प्रमाणत्वात् स्वप्नसंवेदनवत् स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् ...। उभयविकलो यथा, नास्ति सर्वज्ञः प्रत्यक्षाद्यनुपलब्धत्वात् घटवत घटस्य सत्त्वात प्रत्यक्षादिभिरुपलब्धत्वाच्च । सन्दिग्धसाध्यधर्मों यथा, वीतरागोऽयं मरणधर्मत्वात् रथ्यापुरुषवत् रथ्यापुरुषे वीतरागत्वस्य सन्दिग्धत्वात्... । सन्दिग्धसाधनधर्मो यथा, मरणधर्माऽयं पुरुषों रागादिमत्त्वात् रथ्यापुरुषवद् द्रष्टव्यः पुरुषे रागादिमत्त्वस्य सन्दिग्धत्वात् वीतरागस्यापि तथा सम्भवादिति । सन्दिग्धोभयधर्मो यथा, असर्वज्ञोऽयं रागादिमत्त्वात् रथ्यापुरुषवद् इति रथ्यापुरुषे प्रदर्शितन्यायेन उभयस्यापि सन्दिग्धत्वादिति । ननु च परैरन्यदपि दृष्टान्ताभासत्रयमुक्तं तद्यथा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति । तत्र अनन्वयो यथा, रागादिमान् विवक्षितः पुरुषो वक्तृत्वाद् इष्टपुरुषवदिति यद्यपि किलेष्टपुरुषे रागादिमत्त्वं वक्तृत्वं च साध्यसाधनधमौं दृष्टौ तथापि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्धरनन्वयोऽयं दृष्टान्तः । तथा अप्रदर्शितान्वयो यथा, अनित्यः शब्दः कृतकत्वात् घटवदिति । अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथापि वादिना वचनेन न प्रकाशित इति अप्रदर्शितान्वयो दृष्टान्तः । विपरीतान्वयो यथा, अनित्यः शब्दः कृतकत्वाद् इति । हेतुमभिधाय यदनित्यं तत् कृतकं घटवदिति विपरीतव्याप्तिदर्शनाद् विपरीतान्वयः ॥ २४ ॥ 24. Logicians have declared that fallacies of the example (drstāntābhāsa) in the homogeneous form arise here from an imperfect middle term or from a defect in the major term, etc. Pallacies of the homogeneous example (sādharmya-drstāntābhāsa) arise from a defect in the major term (sādhya) or middle term (hetu) or both or from doubt about them, thus : (1) Inference is invalid (major term), because it is a source of knowledge (middle term), like a perception (homogeneous example). Here the example involves a defect in the major term (sādhya), for perception is not invalid. (2) Perception is invalid (major term), because it is a source of true knowledge (middle term), like a dream (homogeneous example). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78