Book Title: Nyayavatara
Author(s): Satyaranjan Banerjee
Publisher: Sanskrit Book Depot P Ltd

Previous | Next

Page 54
________________ 22 न्यायावतार: सामान्येनोक्तम् । व्यवहितप्रयोजनं पुनः विभागेनाह। केवलस्य सर्वज्ञ-ज्ञानस्य सुखं वैषयिकं सुखातीतपरमाह्लादानुभव उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानोपादानेच्छाभावान्मध्यस्थवृत्तिता ते सुखोपेक्षे फलमित्यर्थः । शेषस्य तद्वातिरिक्तप्राकृतलोकप्रमाणस्य आदानं ग्रहणं हानं परित्यागस्तयोरादानहानयोर्धीः बुद्धिरादानहानधीः, सा फल मिति यावत् । ततश्च आदेयानां सम्यग्दर्शनस्रक्चन्दनादीनां या दित्सा तथा, हेयानां मिथ्यादर्शनादिविषकण्टकानां या जिहासा प्रमाणसाध्या प्रमाणात्तत्सिद्धेः ॥ २८ ॥ 28. The immediate effect of pramāņa (valid knowledge) is the removal of ignorance; and the mediate effect of the absolute knowledge is bliss and equanimity while that of the ordinary practical knowledge is the facility to select or reject. Pramana (valid knowledge) is of two kinds : (1) kevala, absolute and (2) a-kevala, ordinary. The immediate effect of both is the cessation of ignorance. The mediate effect of the absolute knowledge is happiness and equanimity, while that of the ordinary knowledge is the facility which it affords us to choose the desirable and reject the undesirable. अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ २६ ॥ अनेके बहवोऽन्ता अंश धर्मा वा आत्मनः स्वरूपाणि यस्य तद् अनेकात्मकं कि तद्वस्तु बहिरन्तश्च गोचरः विषयः सर्वसंविदां समस्तसं वित्तीनामनेन अनेकान्तमन्त रेण संवेदनप्रसरव्यवच्छेदं दर्शयति ... । एक इत्यादि अनन्तधर्माध्यासितं वस्तु साभिप्रेतकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयतीति नयः प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थस्तस्य विषयः प्रमाणस्य गोचरो मतोऽभिप्रेत एकदेशेन अनित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवछिन्नेत्यर्थः । ... सर्वसंग्राहिसत्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः, तद्यथा। नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ़एवंभूता नया इत्यतोऽस्माभिरपि ते एव वर्ण्यन्ते कथमेते सर्वाभिप्रायसंग्राहका इति चेत्। उच्यते । इति प्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तेत गत्यन्तराभावात् । अर्थश्च सामान्यरूपो विशेषरूपो वा शब्दोऽपि रूढितो व्युत्पत्तितश्च व्युत्पत्तिरपि सामान्यनिमित्तप्रयुक्ता तत्कालभाविनिमित्तप्रयुक्ता वा स्यात् । ... येऽपि परस्परविशकलितो सामान्यविशेषौ इच्छन्ति तत् समुदायरूपो नैगमः । ... ये पुनः केवलं सामान्यं वाच्छन्ति तत् समूहसंपाद्यः संग्रहः । ये पुनरनपेक्षितशास्त्रीयसामान्यविशेषं लोकव्यवहारमवतरन्तं घटादिक पदार्थम् अभिप्रयन्ति तन्निचयजात्या व्यवहारः। ये तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते तत्संघातघटित ऋजुसूत्र इति । तथा ये रूढितः शब्दानां प्रवृत्ति वाच्छन्ति तन्निवहसाध्यः शब्द इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78