Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________
द्वितीय: प्रकाशः।
नमस्कारमाहात्म्ये।
+5+4%EE+5+5+%Cha
तायिनः कर्मपाशेभ्यः, तारका मन्जतां भवे । तात्त्विकानामधीशा ये, तान् जिनान् प्रणिदध्महे ॥ १९॥ 'ण'-कारोऽयं दिशत्येवं, त्रिरेखः शून्यचूलिकः । तत्त्वत्रयपवित्रात्मा, लमते पदमव्ययम् ॥ २०॥ सशिरखिसरलरेखं, खचूलमित्यक्षरं सदा ब्रूते । भवति त्रिशुद्धिसरलः, त्रिभुवनमुकटत्रिकालेऽपि ॥ २१॥ सप्तक्षेत्रीय सफला, सप्तक्षेत्रीव शाश्वती । सप्ताक्षरीयं प्रथमा, सप्त हन्तु भयानि मे ॥ २२॥ इति श्रीसिद्धसेनाचार्यविरचिते श्रीनमस्कारमाहात्म्ये प्रथमः प्रकाशः समाप्तः
द्वितीयः प्रकाशः। न जातिनं मृतिस्तत्र, न भयं न पराभवः । न बातु क्लेशलेशोऽपि, यत्र सिद्धाः प्रतिष्ठिताः॥१॥ मोचास्तम्म इवासारः, संसारः क्वैष सर्वथा । क च लोकानगं लोके, सारत्वात्सिद्धवैभवम् १ ॥२॥ सितधर्माः सितलेश्याः, सितध्यानाः सिताश्रयाः । सितश्लोकाश्च ये लोके, सिद्धास्ते सन्तु सिद्धये ॥३॥ सतां वर्मोक्षयोदर्दाने, धाने दुर्गतिपाततः। मन्येऽहं युगपच्छक्ति, सिद्धानां वेतिवर्णतः॥४॥ . यदि वा 'द्धावणे सिद्धशन्देऽत्र, संयोगो वर्णयोर्दयोः । सकर्णोऽयं सकर्णानां, फलं वक्तीव योगजम् ॥ ५॥
लोक-सा. स्व. ग. घ. हि । २ ति यो० क० ख० ग० हि० ।
KHUSIAS
॥३॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28