Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________
पञ्चमः प्रकाशः।
श्री नमस्कारमाहाल्ये। ॥९॥
RBS
पञ्चपैरपि यो ग्लानिं, मुग्धधीगणयिष्यति । एकत्राऽनन्तसिद्धेभ्यः, स कथं स्पृहयिष्यति ॥२०॥ रामाबपायविषमे, सन्मार्गे चरतां सताम् । रत्नत्रयजुषामैक्य, कुशलाय न जायते ॥ २१॥ नैकस्य सुकृतोल्लासो, नैकस्यार्थोऽपि तादृशः। नैकस्य कामसम्प्राप्तिः, नैको मोक्षाय कल्पते ॥ २२॥ श्लेष्मणे शर्करादानं, सज्वरे स्निग्धमोजनम् । एकाकित्वमगीतार्थे, यतावश्चति नौचितीम् ॥ २३ ॥ एकचौरायते प्रायः, शङ्कयते धृवद् द्वयम् । यो रक्षन्ति विश्वास, वृन्दं नरवरायते ॥ २४॥ जिनप्रत्येकबुद्धादि-दृष्टान्तानकतां श्रयेत् । न चर्मचक्षुषां युक्तं, स्पर्द्धितुं शानदृष्टिमिः॥२५॥ चातुर्गतिकसंसारे, भ्राम्यतां सर्वजन्मिनाम् । पुण्यपाफ्सहायत्वात् , नैकत्वं घटतेऽयवा ॥२६॥ संजाकलेश्याविकथा, चर्चिका इव चापलम् । यस्खाऽन्तर्धाम कुर्वन्ति, स एकाकी कथं भवेत् ॥ २७ ॥ शाकिनीबदविरति-संज्ञा नाबाप्रिया सदा । प्रासाय यतते यस्य, स एकाकी कथं भवेत् ॥ २८॥ पश्चाग्निवदसन्तुष्ई, यस्येन्द्रियकुटुम्बकम् । देहं दहत्यसन्देह, स एकाकी कथं भवेत् ॥ २९॥ दायादा इव दुर्दान्ताः, कषायाः क्षणमप्यहो । यद्विग्रहं न मुञ्चन्ति, कथं तस्यैकतासुखम् ॥३०॥ खमनोवाक्तनूत्थाना, कुव्यापाराः कुमुत्रवत् । भ्रंशाय यस्य यस्यन्ति, कथं तस्यैकतासुखम् ॥ ३१ ॥ यस्य प्रमादमिथ्यात्व-रागाद्या छलवीक्षिणः । प्रातिवेश्मिकायन्ते, कथं तस्यैकतासुखम् १ ॥ ३२॥ १. मामा- मिया ख०, रवानार्या प्रिया हि० ।
brennt

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28