Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________
प्रकाशः।
नमस्कारमाहात्म्ये ॥११॥
समितिप्रयतः सम्यग, गुप्तित्रयपवित्रितः । अमुं पञ्चनस्कार, यः स्मरत्युपवैणवम् ॥२॥ शत्रुमित्रायते चित्रं, विषमप्यमृतायते । अशरण्याऽप्यरण्यानी, तस्य वासगृहायते ॥३॥ ग्रहाः सानुग्रहास्तस्य, तस्कराश्च यशस्कराः। समस्तं दुनिमिचाद्य, अपि स्वस्तिफलेग्रहि ॥ ४॥ न मन्त्रतन्त्रयन्त्राधाः, तं प्रति प्रभविष्णवः । सर्वापि शाकिनी द्रोह-जननी जननीव न ॥५॥ व्यालास्तस्य मृणालन्ति, गुञ्जापुञ्जन्ति ववयः। मृगेन्द्रा मृगधूर्तन्ति, मृगन्ति च मतङ्गजाः ॥६॥ तस्य रक्षोऽपि रक्षाय, भूतवर्गोऽपि भूतये । प्रेतोऽपि प्रीतये प्रायः, चेटत्वायैव चेटकः ॥७॥ धनाय तस्य प्रधनं, रोगो भोगाय जायते । विपत्तिरपि सम्पश्यै, सर्व दुःखं सुखायते ॥ ८॥ [सप्तभिः कुलकम् ] बन्धनैर्मुच्यते सर्वैः, सपैंश्चन्दनवजनः । श्रुत्वा धीरं ध्वनि पश्च-नमस्कारगरुत्मतः ॥९॥ जलस्थलश्मशानाद्रि-दुर्गेम्वन्येष्वपि ध्रुवम् । नमस्कारैकचित्तानां, अपायाः प्रोत्सवा इव ॥१०॥ पुण्यानुवन्धिपुण्यो या, परमेछिनमस्कृतिम् । यथाविधि ध्यायति सः, स्थान तिर्यग् न नारकः॥११॥ चक्रिविष्णुप्रतिविष्णु-पलाद्यैश्चर्यसम्पदः । नमस्कारप्रभावाम्धेः, तटमुक्तादिसन्निभाः॥१२॥ वश्यविद्वेषणक्षोभ-स्तम्भमोहादिकर्मसु । यथाविधि प्रयुक्तोऽयं, मन्त्रः सिद्धिं प्रयच्छति ॥१३॥ उच्छेदं परविद्यानां, निमेषाात् करोत्यसौ । क्षुद्रात्मनां परावृत्ति-वेधं च विधिना स्मृतः ॥१४॥ * उपवणवे त्रिसन्ध्यं इत्यर्थः । ।
SAGACASS+KAARA

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28