Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir

View full book text
Previous | Next

Page 27
________________ श्री नमस्कार माहात्म्ये ॥ १९ ॥ पुण्यपापविनिर्मुक्तः, तेनासौ भगवान् जिनः । लोकाग्रं सौधमारूढो, रमते मुक्तिकान्तया ॥ ४६ ॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च ॥ ४७ ॥ इति ध्यानरसा वेशात्, तन्मयीभावमीयुषः । परत्रेह च निर्विघ्नं वृणुते सकलाः श्रियः ॥ ४८ ॥ इति सप्तमः प्रकाशः समाप्तः । अष्टमः प्रकाशः । अर्हतामपि मान्यानां परिक्षीणाष्टकर्मणाम् । सन्तः पश्चदशभिदां, सिद्धानां न स्मरन्ति के १ ॥ १ ॥ निरञ्जनाविदानन्द-रूपा रूपादिवर्जिताः । स्वभावप्राप्तलोकाग्राः, सिद्धानन्त चतुष्टयाः ॥ २ ॥ साद्यनन्तस्थितिजुषो गुणैकत्रिशताऽन्विताः । परमेशाः परात्मानः, सिद्धा मे शरणं सदा ॥ ३ ॥ शरण मे गणधराः, षट्त्रंशद्गुणेभूषिताः । सर्वसूत्रोपदेष्टारो, वाचकाः शरणं ममः ॥ ४ ॥ लीना दशविधे धर्मे, सदा सामायिके स्थिराः । रत्नत्रयवरा वीराः, शरण मे सुसाधवः ॥ ५ ॥ भवस्थितिध्वंसकृतां, शम्भूनामिव नान्तरम् । सूरिवाचकसाधूनां ततो दृष्टमागमे ॥ ६ ॥ धर्मो मे केवलज्ञान -प्रणीतः शरणं परम् । चराचरस्य जगतो, य आधारः प्रकीर्त्तितः ॥ ज्ञानदर्शनचारित्र - त्रयीत्रिपथगोर्मिभिः । भुवनत्रयपाविश्य करो धर्मो हिमालयः ॥ ८ ॥ १ मेऽस्तु सा० ख० ग० हि० । ७ ॥ अष्टमः प्रकाशः । ।। १९ ।।

Loading...

Page Navigation
1 ... 25 26 27 28