Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir

View full book text
Previous | Next

Page 18
________________ भी नमस्कारमाहात्म्ये ॥ १० ॥ एमिरुज्झितः सम्यक्, सजनेऽपि स एककः । जनाऽऽपूर्णेऽपि नगरे, यथा वैदेशिकः पुमान् ॥ ३३ ॥ एभिस्तु सहितो योगी, मुत्रैकाकित्वमनुते । वण्ठः शठथरचौरः, किन भ्राम्यति नैककः १ ॥ ३४ ॥ क्षीरं क्षीरं नीरं नीरं, दीपो दीपं सुधा सुधाम् । यथा सङ्गत्य लभते तथैकत्वं मुनिर्मुनिम् ॥ ३५ ॥ पुण्यपापक्षयान्मुक्ते, केवले परमात्मनि । अनाहारतया नित्यं सत्यमैक्यं प्रतिष्ठितम् ॥ ३६ ॥ यद्वा श्रुतेऽत्र नाऽनुज्ञा, निषेधो वाऽस्ति सर्वथा । सम्यगायव्ययौ ज्ञात्वा यतन्ते यतिसत्तमाः ॥ ३७ ॥ हूयते न दीयते न, न तप्यते न जप्यते । निष्क्रियैः साधुभिरहो, साध्यते परमे पदम् ॥ ३८ हूहूगीतैरपि सुधा - रसैर्मन्दार सौरमैः । दिव्यतल्पसुखस्पर्शैः, सुरीरूपैर्न ये हृताः ॥ ३९ ॥ तत् किं ते तरवो यद्वा, शिशवो यदि वा मृगाः । न ते न ते न ते किन्तु, मुनयस्ते निरञ्जनाः ॥ ४० ॥ 'णं' कारोऽयं भणत्येवं, त्रिरेखो बिन्दुशेखरः । गुप्तित्रये लब्धरेखाः, सद्वृत्ताः स्युर्महर्षयः ॥ ४१ ॥ नवभेदजीवरक्षा-सुधाकुण्डसमाकृतिः । दत्तां नवाक्षरीयं मे, धर्मे भावं नवं नवम् ॥ ४२ ॥ इति पञ्चमः प्रकाशः समाप्तः । षष्ठः प्रकाशः । एष पश्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां मुख्यं भवति मङ्गलम् ॥ १ ॥ १०रुच्छ्रितः क० । २ ० त्ववन्नित्यं, ख० ग घ० हि० । पछः प्रकाशः । 11 20.11

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28