Book Title: Namaskar Mahatmyam
Author(s): Siddhasenacharya
Publisher: Kesarbai Gyanmandir
View full book text
________________
श्री
नमस्कारमाहात्म्ये
॥५॥
''- कारोऽत्र दिशत्येवं, त्रिरेखः शून्यमालितः । रत्नत्रयमयो ह्यात्मा, याति शून्यस्वभावताम् ॥ १९ ॥ शुभाशुभैः परिक्षीणैः कर्मभिः केवलस्य या । चिद्रूपतात्मनः सिद्धौ सा हि शून्यस्वभावता ॥ २० ॥ पञ्चविग्रहसंहन्त्री, पश्चमीगतिदर्शिनी । रक्ष्यात् पश्चाक्षरीयं वः, पञ्चत्वादिप्रपश्चतः ॥ २१ ॥ इति द्विर्तीयः प्रकाशः समाप्तः ।
तृतीयः प्रकाशः ।
न तमोन रजस्तेषु, न च सत्त्वं बहिर्मुखम् । न मनोवाग्वपुः कष्टं, यैराचार्यांद्रयः श्रिताः ॥ १ ॥ मोहपाशैर्महचित्रं, मोटितानपि जन्मिनः । मोचयत्येव भगवान्, आचार्यः केशिदेववत् ॥ २ ॥ आचारा यत्र रुचिराः, आगमाः शिवसङ्गमाः । आयोपाया गतापायाः, आचार्य तं विदुर्बुधाः ॥ ३ ॥ यथास्थितार्थप्रथको, यतमानो यमादिषु । यजमानः स्वात्मयज्ञं, यतीन्द्रो मे सदा गतिः ॥ ४ ॥ रिपौ मित्रे सुखे दुःखे, रिष्टे शिष्टे शिवे भवे । रिक्थे नैः स्व्ये समः सम्यक्, स्वामी संयमिनां मतः ॥ ५ ॥ या काचिदनघा सिद्धिः, या काचिद् लब्धिरुज्वला । वृणुते सा स्वयं सूरिं, भ्रमरीव सरोरुहम् ॥
६ ॥
१ शुद्ध घ० । २ रेक्थ्ये नैः० हि० ।
तृतीयः प्रकाशः ।
॥५॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28