Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala
View full book text
________________
श्रीमुनिभद्रसूरिविरचितम् • १८१
देशान्निदेशानिव ते निदेशव्यापारभाजः परिपालयन्तु ।
तान्पञ्च पञ्चाञ्चित ! वल्लभस्य देशस्य वाहान् दिश मे नरेन्द्र ! ||२३३|| कियत् त्वया याचितमित्युदित्वा स भूपतिः पञ्च ददौ तुरङ्गान् । प्रसादमासेदुषि मानसेऽस्मिन् नैवास्त्यदेयं महतां हि किञ्चित् ||२३४|| विवाह्य तां मङ्गलकुम्भ एवं समाश्रयद् वासगृहं स यावत् । तावद् भुजिष्याभिरुदीर्यमाणाः स्वयं समाकर्णयति स्म वाचः || २३५|| निर्गम्यतां सांप्रतमेष गेहात्प्रयोजनं नः परिपूर्णमेव ।
सख्यः क्षणं तिष्ठतु स प्रतिष्ठः प्रवर्त्तते यावदिदं तमोऽपि ॥ २३६|| तासां गिरः कर्णपथं स नीत्वा विमृश्य चित्तेन निमेषमात्रम् । शरीरचिन्तामिषतोऽभिमानी विनिर्ययौ वासगृहात् सवेगम् ||२३७|| सुवर्णपात्रं सलिलैः प्रपूर्णं स्वपाणिनादाय नरेन्द्रकन्या । तमन्वयासीद् रभासाद् रसोत्का सम्पद् यथैव व्यवसायभाजम् ॥२३८॥ वितत्य किञ्चित्किल देहचिन्तामेतं वधूरुन्मनसं समीक्ष्य । ब्रूते स्म किं नाथ ! विबाधते त्वामारोग्यसम्पातकरी बुभुक्षा || २३९ || अभाषमाणे दयिते वधूटी चेटीं समादिश्य पटीरवासा । स्थालं समानाययति स्म चेतः प्रमोदकैर्मोदककैः प्रपूर्णम् ॥२४०|| ताभ्यामुभाभ्यामपि मोदकास्ते निष्कृत्रिमप्रेमसमन्विताभ्याम् । एकत्र पात्रे घनसारसारैरिवाहिता हर्षभरेण भुक्ताः || २४१|| आस्वादमास्वादयतेव तेषामस्या निजस्थानविबोधनाय । तेनेन्दुखण्डैरिव निर्मितानां सौन्दर्यमादर्शयतेत्यवादि ॥२४२॥ स्याच्चेद् विशालासलिलं कथञ्चित् तन्मोदका मानसमोदकाः स्युः द्राक्षारसोत्पादितपानकान्त: सितापरिक्षेपनिदर्शनं च ॥ २४३ ॥
Cibya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324