Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 293
________________ २२८ • मङ्गलकलशकथानकम् जानन्नहं कथं करोमि ? । इति चिन्तयन् स्वधियैव लब्धोपायो धीसखो गोत्रदेवीं समाराधयामास । साऽपि प्रत्यक्षीभूयोवाच-भो मन्त्रिन् ! तवाङ्गजस्य कर्मोद्भूतकुष्ठरोगक्षयोऽशक्यः, अवश्यमेव हि भोग्यं कर्म भुज्यते, तथापि भवत्कार्यसिद्धयर्थं पुरीद्वारेऽश्वरक्षकनरान्तिके यः शीतोर्तोऽग्निसेवनपरः कुतोऽप्यानीय त्वद्भक्तितुष्टया मयाऽऽनेष्यते, स बालो मन्त्रिन् ! त्वया ग्राह्यः, इत्युक्त्वा देवी तिरोदधे । सचिवः सर्वविवाहसामग्री प्रगुणीचकार । अश्वपालनरमाकार्य समादिदेश-यः कश्चिद् बालो भवदन्तिकेऽभ्येति स प्रच्छन्नं ममान्तिके समानेयः । देवताऽपि विशालायां गत्वा पुष्पाण्यानीयारामान्निजगृहे गच्छतस्तस्य मङ्गलकलशस्यान्तरिक्षस्थितोवाचैवं-अयं बालकोऽन्यकन्यां भाटकेन परिणेष्यति । तच्छ्रुत्वा विस्मित: स गृहं ययौ । द्वितीयदिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत्-अद्याहं सदनं प्राप्तो व्योमवाणी पितुः कथयिष्यामि । यावदिदं चिन्तयति तावच्चम्पापुरीनिकटाटव्यां देव्या स मुक्तः । तत्र भ्रमन्नश्वपालान्तिके आगतः । तैरश्वपालैर्गोपयित्वाऽमात्यस्यार्पितः । स तं देवकुमाराभं दृष्ट्वा हृष्टो विजने स्थापयामास । एकदा तेन सचिवः पृष्टःतात ! कुतो मम वैदेशिकस्य गौरवं विधीयते ? कथं च विजने रक्षितोऽहम् ? । सोऽपि तस्मै कपटेन चम्पापुराधिपस्य त्रैलोक्यसुन्दरी पुत्रीं त्वं परिणीय कुष्ठेन पीडिताय मत्पुत्राय तां नृपाङ्गजां दद्याः, तदर्थं त्वमत्रानीतः इति स्वाभिप्रायं न्यवेदयत् । तच्छ्रुत्वा मङ्गल उवाचकुलकलङ्ककृदकृत्यमहं कथं करोमि ? मुग्धजनं कूपे क्षिप्त्वा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि । मन्त्र्यूचे-हे दुर्मते ! कर्मेदं चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा करमोचने ovato Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324