Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 302
________________ अज्ञातकर्तृकम् • २३७ श्रीविशालोद्यानमार्गे, मङ्गलं वीक्ष्य देव्यवक् । भाटकेन कनीमेतामुद्वहसि नरोत्तम ! ॥५३।। तच्छ्रुत्वा मङ्गलो दधौ, कथयिष्ये गृहे गतः । गृहागतस्य तस्याऽतिविस्मृतं तत् प्रमादतः ॥५४।। द्वितीयेऽह्नि तथैवोक्तो, यावद् गच्छति मन्दिरम् । वातेन तावदुत्पाट्य, मुक्तश्चम्पापुरीवने ॥५५॥ विक्रीतेभ्योऽवशिष्टोऽथ, यूथभ्रष्टोऽथवा मृगः । बालको वा पुरे भ्रान्तः, कान्दिशीको बभूव सः ॥५६।। अन्तस्तदुःखतापेन, सन्तापित इवार्यमा । असहिष्णुस्ततो मन्ये ममज्ज पश्चिमार्णवे ॥५७।। अथ तत्र सरस्तीरनीरं पीत्वा तटस्थितम् । आरुरोह वटं यावत्, तावद् वह्निं ददर्श सः ॥५८।। भय-शीतभराऽऽक्रान्तो, धनदत्तसुतस्ततः । वेपमानवपुः प्राप, वह्नि तापनकस्थितम् ।।५९।। केऽपि तत्र हसन्ति स्म, खेदयन्ति स्म केचन । कम्पमानं कुमारं तं, वाक्यैर्नीचकुलोचितैः ॥६०।। मन्दुरारक्षको बालं, दृष्ट्वा विस्मितमानसः । तापयित्वाऽन्यतो नीत्वा, सङ्गोप्य स्वामिने ददौ ॥६१॥ सचिवोऽपि तालकान्तः, प्रक्षिप्य कुमरं स्वयम् । वस्त्रान्न-पान-ताम्बूलैः, प्रत्यहं सत्करोति सः ॥६२।। एकदा मङ्गलो दघ्यावुपकारः सतामिव । कारणेन विनाप्यस्योपकारः कथमीदृशः ? ।।६३।। Claraq Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324