Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 314
________________ श्रीहंसचन्द्रशिष्यविरचितम् • २४९ गृहदेवान् पूजयित्वा च जिनालये गच्छति स्म तत्र महतीमर्चामकरोत् । पश्चाच्चैत्यवन्दनां विदधे । ततो मुनीन् प्रणम्य प्रत्याख्यानं कृत्वा च साधूनां संविभागं विधाय स्वयं भुङ्क्ते । अथ धर्मप्रभावेन शासनदेवता तृष्टा [प्राह]–'हे श्रेष्ठिन् ! वरं याचय ।' तेनोक्तं–'पुत्रो देहि' । सा प्राह'भविष्यति ते सुतः ।' श्रेष्ठिनी स्वप्ने हेममयं पूर्णकलशमैक्षत । समये पुत्रो जातः । 'मङ्गलकलस' इति आख्यां ददौ । सः कलाभ्यासपर: अन्यदा निजं पितरं पप्रच्छ–'हे तात ! त्वं कुत्र यासि ?' श्रेष्ठी अवदत्'प्रतिवासरे आरामे गत्वा पुष्पाणि आनीय जिनपूजनं करोमि ।' अनेयुः सो बालस्तत्र आरामे पित्रा सह ययौ । आरामिक: श्रेष्ठिपुत्रं ज्ञात्वा तस्मै नारङ्गादीनि सुस्वादूनि फलानि ददौ । तेन द्वितीये दिने सादरं भणित:'हे तात ! त्वया निश्चिन्तेन स्थातव्यं अतः परमारामे मया गम्यम् । तद् वाक्यं पितापि अनुमेने । एवं तस्य कुर्वतः कियत्काले गते यज्जातं तन्निशम्यताम् । अत्र भरते चम्पापुरी अस्ति । तत्र सुरसुन्दरनामा राजाऽभूत् । तस्य राज्ञः गुणावली राज्ञी । सा स्वप्ने कल्पलतां दृष्ट्वा राज्ञेऽचीकथन् । राज्ञोक्तं-'हे देवी ! तव पुत्री भविष्यति ।' काले पूर्णे देवी सूतां सुषूवे । महीपतिस्तस्यास्त्रैलोक्यसुन्दरी नाम चक्रे । सा कीदृशी ? लावण्यरसमञ्जूषा सौभाग्यरसतटिनी प्रत्यक्षसुन्दराङ्गना[सुराङ्गना] । धरापतिस्तां विलोक्य दध्यौ–'अस्याःऽनुरूपो वरो(क:) भविष्यति ? जीवितादप्यस्माकं वल्लभाऽनया विना क्षणमपि प्राणान् धर्तुं न समर्थाः । प्रधानपुत्राय दीयते तदा वरं यथा प्रत्यहं नयनानन्दकारिणी दृश्यते ।' ततो राज्ञा सुबुद्धि समाहूय अभाणि-'मया त्वत्सुताय मत्पुत्री दत्ता ।' अमात्योऽवदत् ‘देवाऽदः किमयुक्तमुक्तं ? राजपुत्रं दातुमुचिता ।' राजाऽवोचत् Ayato Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324