Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 310
________________ अज्ञातकर्तृकम् • २४५ सा सभा स नरेशोऽपि, समकालमदोवदत् । अहो ! वैदग्ध्यमेतस्या, अहो ! मन्त्रिणो दुष्टताम् ।।१४०।। तुष्टो नृपोऽपि तस्याऽदाद् वस्त्रालङ्करणादिकम् । धनदत्तं समाहूय वर्धापनमकारयत् ।।१४१।। धनदत्तगृहे तो तु, दशाह्निकमतीत्य च । भूपप्रदत्ताऽऽवासस्थौ, निन्याते वासरान् सुखम् ॥१४२।। ताभ्यां सिंहनृपश्चम्पाभूपान्ते प्रेषितस्ततः । तन्मुखाज्ज्ञातवृत्तान्तश्चम्पापोऽचिन्तयन्निदम् ॥१४३।। अद्य मे हेम्नि सौरभ्यं, सौभाग्योपरि मञ्जरी । कलङ्कोत्तरणं वंशात् , पुत्र्या पतिरवापि च ॥१४४।। पुनः सिंहनृपं प्रेष्य, धनदत्तान्वितौ च तौ । आनाय्य मिथुनं दृष्ट्वा, हृष्टोऽभूत् मेदिनीपतिः ॥१४५।। अथाऽन्येधुर्नृपं घ्नन्तं, तेन पापेन मन्त्रिणम् ।। मङ्गलो वारयामास ताततुल्यो ममाऽस्त्यसौ ॥१४६।। भुक्त्वा सुखं चिरं भूपः, पुत्राऽभावात्पदे निजे । मङ्गलं न्यस्य जगृहे, शीलभद्राऽन्तिके व्रतम् ॥१४७।। राज्योपविष्टं वणिज, ज्ञात्वा राज्यार्थिनो नृपाः । आजग्मुराहवे जित्वा, सोपि तान् स्ववशे व्यधात् ।।१४८।। ततस्तयोर्महासौख्यमग्नयोरभवत्सुतः । अमन्दाऽऽनन्दजननो नाम्ना च जयकुञ्जरः ॥१४९।। जयसिंहमुनेः पार्श्वे, धर्मं श्रुत्वा नृपोऽन्यदा । पप्रच्छ कर्मणा मे किं, राज्यं देव्याश्च दूषणम् ? ॥१५०।। Ofee Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324