Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala
View full book text
________________
२३८ • मङ्गलकलशकथानकम् वाहनाय यथा वाजी, गोर्दुग्धायैव पुष्यते । सेवकः सेवनायैव, सर्वं स्वार्थेन पुष्यते ॥६४॥ तथान्यदाऽमात्यपतिर्मङ्गलं प्रोचिवानदः । विवाह्य कनीं भूपस्य, मत्सुताय प्रयच्छ भो !' ॥६५।। पिधाय कर्णौ स प्राह, न श्रुणोमीदृशं वचः । न कुर्वन्ति हि दुःकर्म, सन्तः प्राणान्तसङ्कटे ॥६६।। हरो विषं मृगं चन्द्रः, समुद्रो वडवानलम् । अरम्यमपि मुञ्चन्ति, नादृतं किं पुनः प्रियम् ? ॥६७|| मन्त्री प्रोचे ततः कोपाद्धनिष्ये स्मर दैवतम् । ततो वीरव्रताधारः, कुमारः प्राह साहसी ॥६८॥ खिन्नोपि भाडिजो वाजी, दुर्बलोपि मृगाधिपः । भग्नस्तथापि वाराहो, व्यसनस्थस्तथापि सः ॥६९।। पुष्पाणि लाति रुष्टोपि, कबरी न तु मालिकः । त्वं रुष्टः प्राणहा नूनं, न ते पाणौ यशांसि मे ॥७०॥ तद्वाक्यदूनोऽधावत् तं, हन्तुं मन्त्री यथा तथा । सूकरो रोहितः सर्पः, छोहितः कोपितो बली ॥७१।। ततो मा मेति जल्पन्ती, तत्पत्नी मङ्गलं ययौ । जगाद न श्रुतं वत्स !, जीवद्भिर्भद्रमाप्यते ।।७२।। न मन्यसे तत्कोपस्य, समुद्रे सक्तुमुष्टिवत् । तप्ते बिन्दुः क्षुधातस्य, ग्रासवत् त्वं भविष्यसि ॥७३।। तद्वचोऽतिसुधासारं, श्रुत्वा चित्ते विचिन्त्य च । अनिष्टमपि कालज्ञो मेने तन्मङ्गलो वचः ॥७४।।
Asyag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324