________________
२२८ • मङ्गलकलशकथानकम् जानन्नहं कथं करोमि ? । इति चिन्तयन् स्वधियैव लब्धोपायो धीसखो गोत्रदेवीं समाराधयामास । साऽपि प्रत्यक्षीभूयोवाच-भो मन्त्रिन् ! तवाङ्गजस्य कर्मोद्भूतकुष्ठरोगक्षयोऽशक्यः, अवश्यमेव हि भोग्यं कर्म भुज्यते, तथापि भवत्कार्यसिद्धयर्थं पुरीद्वारेऽश्वरक्षकनरान्तिके यः शीतोर्तोऽग्निसेवनपरः कुतोऽप्यानीय त्वद्भक्तितुष्टया मयाऽऽनेष्यते, स बालो मन्त्रिन् ! त्वया ग्राह्यः, इत्युक्त्वा देवी तिरोदधे । सचिवः सर्वविवाहसामग्री प्रगुणीचकार । अश्वपालनरमाकार्य समादिदेश-यः कश्चिद् बालो भवदन्तिकेऽभ्येति स प्रच्छन्नं ममान्तिके समानेयः । देवताऽपि विशालायां गत्वा पुष्पाण्यानीयारामान्निजगृहे गच्छतस्तस्य मङ्गलकलशस्यान्तरिक्षस्थितोवाचैवं-अयं बालकोऽन्यकन्यां भाटकेन परिणेष्यति । तच्छ्रुत्वा विस्मित: स गृहं ययौ । द्वितीयदिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत्-अद्याहं सदनं प्राप्तो व्योमवाणी पितुः कथयिष्यामि । यावदिदं चिन्तयति तावच्चम्पापुरीनिकटाटव्यां देव्या स मुक्तः । तत्र भ्रमन्नश्वपालान्तिके आगतः । तैरश्वपालैर्गोपयित्वाऽमात्यस्यार्पितः । स तं देवकुमाराभं दृष्ट्वा हृष्टो विजने स्थापयामास । एकदा तेन सचिवः पृष्टःतात ! कुतो मम वैदेशिकस्य गौरवं विधीयते ? कथं च विजने रक्षितोऽहम् ? । सोऽपि तस्मै कपटेन चम्पापुराधिपस्य त्रैलोक्यसुन्दरी पुत्रीं त्वं परिणीय कुष्ठेन पीडिताय मत्पुत्राय तां नृपाङ्गजां दद्याः, तदर्थं त्वमत्रानीतः इति स्वाभिप्रायं न्यवेदयत् । तच्छ्रुत्वा मङ्गल उवाचकुलकलङ्ककृदकृत्यमहं कथं करोमि ? मुग्धजनं कूपे क्षिप्त्वा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि । मन्त्र्यूचे-हे दुर्मते ! कर्मेदं चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा करमोचने
ovato
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org