________________
९. श्रीलक्ष्मीसूरिविरचितम् मङ्गलकलशकथानकम् ॥
जैनधर्मं समाराध्य, भूत्वा विभवभाजनम् । प्राप्ताः सिद्धिसुखं ये ते, श्लाघ्या मङ्गलकुम्भवत् ॥१॥
उज्जयिन्यां पुर्यां वैरसिंहो भूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठ्यभूत । तस्य निरपत्या सत्याभामा भार्या विद्यते । साऽन्यदा पुत्रचिन्तामलानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच्छ-हे नाथ ! दुःखस्य किं कारणम् ? । श्रेष्ठिना याथातथ्ये कथिते सा स्माह-किमनया चिन्तया ? सुखैषिणेहामुत्र सुखप्रदो धर्म एव सेवनीयः । इति प्रियोदितं साधु मत्वा हृष्टः श्रेष्ठी पुष्पादिना देव पूजाद्यनेकधर्मकर्म चकार । अथ धर्मप्रभावेण तुष्टा शासनदेवता तस्मा ईप्सितवरं ददौ । सा श्रेष्ठिन्यन्यदा गर्भं दधौ । पूर्णे मासे जातस्य पुत्रस्य स्वप्नानुसारेण मङ्गलकलश इत्याख्यां तत्पिता ददौ । कलाभ्यासपर: स पुष्पानयनहेतवे आरामे वजन्तं स्वपितरं निवार्य प्रतिवासरं पुष्पाणि चानीय स्वयं तस्मै ददौ, जिनपूजनं स्वयं करोति कारयति च । धर्माभ्यासं कुर्वतस्तस्यात्रान्तरे यज्जातं तन्निशम्यताम् ।
चम्पापुरे महाबाहुः पार्थिवोऽभूत् । तस्य राज्ञी गुणावली । तयोः पुत्री लावण्यरसमञ्जूषा सुरूपा प्राप्तयौवना त्रैलोक्यसुन्दरी बभूव । तामनवद्याङ्गी विलोक्य धरापतिरिति दध्यौ-मम वत्सायाः कोऽनुरूपो रमणो भवति ? ततो राज्ञा निजं सुबुद्धिसचिवं समाहूयाऽभाणि-मया त्वत्सुतायात्मजा दत्ताऽतः परं त्वया न वाच्यम् । अथ गृहं गत्वा सचिवोऽचिन्तयत्-रतितुल्या राजपुत्री, मम सुतस्तु कुष्ठी, तदेतयोर्योगं
Oice
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org