________________
श्रीलक्ष्मीसूरिविरचितम् • २२९
यद्वस्तु मह्यं ददाति तन्ममैव दातव्यम् । एवमस्त्विति तद्वाक्यं मन्त्र्यपि मेने । अथ संप्राप्ते शुभे लग्ने महताऽऽडम्बरेण मङ्गलेन परिणीता सा । हस्तमोचनसमये जात्यघोटकपञ्चकादिकं तस्मै राजा प्रददौ । ततो मन्त्रिणा वध्वा समं स मङ्गलः स्वगृहं निन्ये । क्षणान्तरे स मङ्गलो देहचिन्तामिषेण वासमन्दिरान्निर्ययौ । साऽपि चलचित्तं निजपतिं ज्ञात्वा पयः पात्रं गृहीत्वा तदनु प्राचलत् । देहचिन्तान्ते विचित्तं स्वपतिं वीक्ष्य प्रेयसी प्राह - हे कान्त ! त्वां क्षुधा बाधते किमु ? । तेन ओमिति भणिते सा दासीहस्तेन मोदकान् स्वगृहादानाय्य तस्मै ददौ । भक्षयता तेनास्याः स्वस्थानज्ञापनायेत्युक्तं विशालावारिणा ऋते एते मोदका न रम्यतराः । तदाकर्ण्य नृपात्मजा विस्मिताऽचिन्तयत् - अहो ! कथमघटमानं वाक्यमेष प्रजल्पति ? (अथवाऽस्य मातुलगृहं तत्र स्यात्) । इति विचिन्त्य सुरभिताम्बूलं सा तस्य ददौ । पुनर्देहचिन्तामिषेण मन्दिरादेष विनिर्गत्य तुरगादिकं लात्वा क्रमादवन्ति ययौ । पितरौ समायातं सुतमालोक्य गतशोकौ बभूवतुः । तेन पितृभ्यां स्वस्वरूपं निवेदितम् ।
इतश्च मन्त्रिणा रात्रौ मङ्गलवेषभृतं वधूपान्ते प्रेषितं सुतं । शय्यारूढं कुष्ठिनं करस्पर्शं कुर्वन्तं दृष्ट्वा सहसा वासवेश्मनो बहिर्निर्गत्य दासीमध्ये निषण्णा विषण्णा सा निशामगमयत् । प्रातः सचिवो नृपतिं व्यजिज्ञपत्प्रभो ! मम सुतोऽधुना त्वत्सुतास्पर्शतः कुष्ठरोगार्तो दृश्यते, किं क्रियते ? | तदाकर्ण्य भूपस्तं स्माह - विचित्रा कर्मणां गतिः, यतः -
चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः ।
विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥१॥
[ अजितप्रभसूरिकृते शा० चरित्रे - १ - २०२]
अत्र मम पुत्र्या दोषः, न तव पुत्रस्य, इत्याश्वासितः सचिवः स्वगृहं
estaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org