________________
२३० • मङ्गलकलशकथानकम् ययौ । राज्ञा दृक्पथान्निवारिता साऽन्येधुविगलितमन्योः पितुरन्तिकं गत्वोवाच-तात ! मम पुंवेषमर्पय, विशालां गतस्य तस्य मिलित्वा कलङ्कमपनयामि । राज्ञाऽनुज्ञाता सैन्यैर्वृता सा तामुज्जयिनीं प्राप । मालवाधिप आयातं भूपनन्दनं मत्वा वासगृहदानाद्यैः सच्चकार । अन्यदैषा सदनाग्रतः सरस्तीरे गच्छतः पितृनामाङ्कितानश्वान् ददर्श । तेषामनुपदं स्वभृत्यान् प्रेष्य भर्तुर्गृहाभिधानादि सा विवेद । ज्ञानाभ्यासपरं तं ज्ञात्वाऽसौ सच्छात्रमुपाध्यायं भोजनाय न्यमन्त्रयत् । भोजनार्थं तत्रायाते पाठके सा छात्रमध्ये स्वभर्तारं ददर्श । तान् वसनासनाद्यैः संमान्य सा कलाचार्यमुवाच-एतन्मध्यात् त्वदाज्ञया यो जानाति स छात्रो मम कथानकमाख्यातु । पाठकगिरा मङ्गलकुम्भस्तां पुंवेषधारिणी निजप्रियां मत्वा सिंहादिकानां शृण्वतां स्वमुद्वाहादिकं प्रागुक्तं जगौ । तच्छ्रुत्वा नृपात्मजा सिंहसामन्तमवोचत्-अयमेव मम प्रियः, अस्यान्वेषणार्थमहं पुंवेषं कृत्वाऽत्राऽऽगताऽस्मि । सिंहोऽब्रवीत्-अयं चेत् तव भर्ता तदाऽपशङ्कितं सेव्यः । ततो राजाज्ञया त्रैलोक्यसुन्दर्या समं स मङ्गलो विललास। एकदा सुन्दर्या प्रेरितः स मङ्गलोऽवन्तीशमनुज्ञाप्य चम्पामयात् । राजाऽपि स्वदुहितुर्मुखावृत्तान्तं श्रुत्वा हृष्टोऽभाषिष्ट-वत्से ! तव कलङ्को दूरीभूतः । अथ महीभुजा दुष्टकर्मकारकं तममात्यं मार्यमाणं मङ्गलो मोचयामास । अपुत्रः स भूपस्तं मङ्गलं राज्ये स्थापयित्वा यशोभद्रसूरीणां चरणान्तिके परिव्रज्यामुपाददे । राज्यं पालयतस्तस्य पत्न्यां जयशेखरनामा सुतोऽभूत् । __ अन्यदोद्यानमायातं जयसिंहाख्यगुरुं सप्रियो भूपो भावेन प्रणम्य तद्देशनां श्रुत्वा पप्रच्छ-भगवन् ! केन कर्मणा मया विडम्बना प्राप्ता? देव्या च दूषणं प्राप्तम् ? । सूरि: स्पष्टं न्यवेदयत्-पुरा क्षितिप्रतिष्ठपुरे सोमचन्द्राह्वः
Sisate
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org