________________
श्रीलक्ष्मीसूरिविरचितम् • २३१
I
कुलपुत्रकोऽभूत् ! तस्य भार्या श्रीदेवी । तस्य सखा जिनदेवाभिधः श्रावकोऽभूत् । अन्यदा स जिनदेवो धनाकाङ्क्षी देशान्तरं गन्तुकामो निजमित्रसोमचन्द्रस्य स्वधनं सप्तसु क्षेत्रेषु वपनायार्पयत् । तस्मिन् गते सोमचन्द्रस्तद्द्रव्यं यथास्थानेव्ययति स्म । तत्रैव पुरे श्रीदेव्याः सखी देवदत्तस्य गेहिनी भद्राभिधाऽभवत् । भद्रायाः पतिः केनचित्कर्मणा कुष्ठी जज्ञे । अन्येद्युस्तया सख्याः पुरस्तत्स्वरूपं निवेदितम् । हास्यपरया श्रीदेव्या तस्याः संमुखं निगदितं-हले ! त्वत्सङ्गेन त्वत्पति: कुष्ठी जज्ञे । तदाकर्ण्य भद्रा हृदि दोदूयते स्म । क्षणादूर्ध्वं वयस्ये! मा कृथाः खेदं मया हास्येन कथितं इति प्रोच्य साऽऽह्लादिता । साधुसंसर्गतः श्राद्धधर्मं प्राप्य क्रमात्समाधिना मृत्वा युवां दम्पती सौधर्मे समजायेतां, ततश्च्युत्वा सोमचन्द्रजीवो भूपते ! त्वमभूः, श्रीदेव्याश्च जीवस्त्रैलोक्यसुन्दरी जज्ञे । भवता परद्रव्येण पुण्यमुपार्जितं तेन भाटकेनैव नृपात्मजा परिणीता । पुराऽनया हास्येनापि वयस्यायै यद् दत्तं तदा तस्या इह भवे तत्कलङ्कमभूत् । ईदृग्मुनिवचः श्रुत्वा विरक्तौ तौ राज्यं स्वसूनवे दत्वा गुरोः पार्श्वे प्रव्रज्यां जग्रहतुः । निरतिचारं संयमं प्रपाल्यान्ते तावुभौ विपद्य ब्रह्मलोकमुपेयतुः । क्रमेणाव्ययमजरमभयं समस्तात्मसंपत्त्याविर्भावसुखं मोक्षपदं प्रापतुः ।
Jain Education International
PSYAQ
For Personal & Private Use Only
www.jainelibrary.org