________________
१०. अज्ञातकर्तृकम्
श्रीमङ्गलकलशकथानकम् ॥ उज्जयिन्यां महापूरू, वैरिसिंहो नरेश्वरः । आसीद् वैरिव्रजवधूवातवैधव्यपण्डितः ।।१।। तत्रैव धनदत्तोऽभूत्, श्रेष्ठी श्रेष्ठो विशिष्टधीः । सत्यभामा प्रिया तस्य, शस्याचारा महासती ॥२॥ अन्यदा स निशाशेषे, सुखसुप्तो व्यचिन्तयत् । सुतेन शून्या मल्लक्ष्मीः , सर्व शून्या र....म् ॥३॥ देवहीनं देवकुलं, स्वामिहीनं यथा बलम् । मोक्तिकं तेजसा हीनं, पुत्रहीनं तथा कुलम् ।।४।। एवं चिन्तापरो यावत्, तावदूचे प्रिया प्रियम् ।। परिम्लानमु[खोऽ]त्यन्तं तथा नाथ ! निरीक्षसे ।।५।। यथा फालच्युतो द्वीपी, भग्नदन्तो यथा करी । गतमन्त्रो यथा योगी, नियोगीव पदच्युतः ॥६॥ यदि गोप्यं नहि स्वामिन् !, कारणं मे तदा वद । श्रेष्ठ्यूचे चेद् हृदो गोप्यं, न गोप्यं मे तथाऽपि ते ॥७॥ पत्रहीना यथा वल्ली, चन्द्रहीना च शर्वरी । विषादाय विदग्धानां, तथा त्वं मे सुतोज्झिता ॥८॥ प्रिया प्राह प्रिय ! प्राप्तं?, विषादेन विषीद मा । समीहितफलाऽऽवाप्तौ, कुरु धर्मे मतिं सदा ।।९।। १. 'पर्याप्तं' इत्यर्थः ।
Ostag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org