Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala
View full book text
________________
अज्ञातकर्तृकम् • २३३ दवदग्धा यथा वृक्षा, धर्मदग्धा यथाऽङ्कराः । नीरादेव प्ररोहन्ति, तथा धर्मान्मनोरथाः ॥१०॥ तच्छ्रुत्वा धनदत्तोऽपि, धर्मकर्मोद्यतः सदा । निनाय कालं सौख्येन, सप्तक्षेत्र्यां धनं वपन् ॥११।। तेन धर्मप्रभावेन, कान्ता सुतमजीजनत् । कुम्भेन सूचितं स्वप्ने, रत्नं रत्नखनी यथा ॥१२॥ ताभ्यां स्वप्नानुसारेण, महोत्सव-पुरस्सरम् । तस्य 'मङ्गलकलश', इत्याख्या विदधे मुदा ॥१३।। वर्धमानः कुमारोऽथ समं पितृमनोरथैः । अष्टसंवत्सरकलः सोऽष्टमीन्दुरिवाभवत् ॥१४॥२ महाजनिकमाणिक्यं जिनार्चाहेतवेऽन्वहम् । स्वयं प्रयाति पुष्पादि समानेतुं विशुद्धधीः ॥१५।। अपरेधुः समं पित्रा बाढं पल्लविताग्रहः । स जगाम पुष्पवाट्यां फलपुष्पादिलालसः ।।१६।। प्रश्नाद् विज्ञाय तं बालं धनदत्तस्य नन्दनम् । फलाद्यैः प्रीणयामास कामं मलयपालकः ॥१७॥ अथागम्य गृहं श्रेष्ठी सपर्या श्रीजिनेशितुः । चकार पूजासम्भारमार्पयत् तस्य नन्दनः ॥१८|| इति प्रत्यहमातन्वंस्तनुभूरपद्यविः । पितृपादाम्बुजयुगं विनम्यैवं व्यजिज्ञपत् ।।१९।। २. इमे सप्त श्लोकाः सम्पादनाय प्राप्तप्रप्तौ । न सन्ति, परं तु कथावश्यकतानुसारेण श्री माणिक्यचन्द्रसूरिविरचितचरित्रात् उद्धृताः ।
DISee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324