Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 296
________________ श्रीलक्ष्मीसूरिविरचितम् • २३१ I कुलपुत्रकोऽभूत् ! तस्य भार्या श्रीदेवी । तस्य सखा जिनदेवाभिधः श्रावकोऽभूत् । अन्यदा स जिनदेवो धनाकाङ्क्षी देशान्तरं गन्तुकामो निजमित्रसोमचन्द्रस्य स्वधनं सप्तसु क्षेत्रेषु वपनायार्पयत् । तस्मिन् गते सोमचन्द्रस्तद्द्रव्यं यथास्थानेव्ययति स्म । तत्रैव पुरे श्रीदेव्याः सखी देवदत्तस्य गेहिनी भद्राभिधाऽभवत् । भद्रायाः पतिः केनचित्कर्मणा कुष्ठी जज्ञे । अन्येद्युस्तया सख्याः पुरस्तत्स्वरूपं निवेदितम् । हास्यपरया श्रीदेव्या तस्याः संमुखं निगदितं-हले ! त्वत्सङ्गेन त्वत्पति: कुष्ठी जज्ञे । तदाकर्ण्य भद्रा हृदि दोदूयते स्म । क्षणादूर्ध्वं वयस्ये! मा कृथाः खेदं मया हास्येन कथितं इति प्रोच्य साऽऽह्लादिता । साधुसंसर्गतः श्राद्धधर्मं प्राप्य क्रमात्समाधिना मृत्वा युवां दम्पती सौधर्मे समजायेतां, ततश्च्युत्वा सोमचन्द्रजीवो भूपते ! त्वमभूः, श्रीदेव्याश्च जीवस्त्रैलोक्यसुन्दरी जज्ञे । भवता परद्रव्येण पुण्यमुपार्जितं तेन भाटकेनैव नृपात्मजा परिणीता । पुराऽनया हास्येनापि वयस्यायै यद् दत्तं तदा तस्या इह भवे तत्कलङ्कमभूत् । ईदृग्मुनिवचः श्रुत्वा विरक्तौ तौ राज्यं स्वसूनवे दत्वा गुरोः पार्श्वे प्रव्रज्यां जग्रहतुः । निरतिचारं संयमं प्रपाल्यान्ते तावुभौ विपद्य ब्रह्मलोकमुपेयतुः । क्रमेणाव्ययमजरमभयं समस्तात्मसंपत्त्याविर्भावसुखं मोक्षपदं प्रापतुः । Jain Education International PSYAQ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324