Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 295
________________ २३० • मङ्गलकलशकथानकम् ययौ । राज्ञा दृक्पथान्निवारिता साऽन्येधुविगलितमन्योः पितुरन्तिकं गत्वोवाच-तात ! मम पुंवेषमर्पय, विशालां गतस्य तस्य मिलित्वा कलङ्कमपनयामि । राज्ञाऽनुज्ञाता सैन्यैर्वृता सा तामुज्जयिनीं प्राप । मालवाधिप आयातं भूपनन्दनं मत्वा वासगृहदानाद्यैः सच्चकार । अन्यदैषा सदनाग्रतः सरस्तीरे गच्छतः पितृनामाङ्कितानश्वान् ददर्श । तेषामनुपदं स्वभृत्यान् प्रेष्य भर्तुर्गृहाभिधानादि सा विवेद । ज्ञानाभ्यासपरं तं ज्ञात्वाऽसौ सच्छात्रमुपाध्यायं भोजनाय न्यमन्त्रयत् । भोजनार्थं तत्रायाते पाठके सा छात्रमध्ये स्वभर्तारं ददर्श । तान् वसनासनाद्यैः संमान्य सा कलाचार्यमुवाच-एतन्मध्यात् त्वदाज्ञया यो जानाति स छात्रो मम कथानकमाख्यातु । पाठकगिरा मङ्गलकुम्भस्तां पुंवेषधारिणी निजप्रियां मत्वा सिंहादिकानां शृण्वतां स्वमुद्वाहादिकं प्रागुक्तं जगौ । तच्छ्रुत्वा नृपात्मजा सिंहसामन्तमवोचत्-अयमेव मम प्रियः, अस्यान्वेषणार्थमहं पुंवेषं कृत्वाऽत्राऽऽगताऽस्मि । सिंहोऽब्रवीत्-अयं चेत् तव भर्ता तदाऽपशङ्कितं सेव्यः । ततो राजाज्ञया त्रैलोक्यसुन्दर्या समं स मङ्गलो विललास। एकदा सुन्दर्या प्रेरितः स मङ्गलोऽवन्तीशमनुज्ञाप्य चम्पामयात् । राजाऽपि स्वदुहितुर्मुखावृत्तान्तं श्रुत्वा हृष्टोऽभाषिष्ट-वत्से ! तव कलङ्को दूरीभूतः । अथ महीभुजा दुष्टकर्मकारकं तममात्यं मार्यमाणं मङ्गलो मोचयामास । अपुत्रः स भूपस्तं मङ्गलं राज्ये स्थापयित्वा यशोभद्रसूरीणां चरणान्तिके परिव्रज्यामुपाददे । राज्यं पालयतस्तस्य पत्न्यां जयशेखरनामा सुतोऽभूत् । __ अन्यदोद्यानमायातं जयसिंहाख्यगुरुं सप्रियो भूपो भावेन प्रणम्य तद्देशनां श्रुत्वा पप्रच्छ-भगवन् ! केन कर्मणा मया विडम्बना प्राप्ता? देव्या च दूषणं प्राप्तम् ? । सूरि: स्पष्टं न्यवेदयत्-पुरा क्षितिप्रतिष्ठपुरे सोमचन्द्राह्वः Sisate Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324