Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 283
________________ २१८ • मङ्गलकलशकथानकम् प्रेष्य प्रस्तावो ज्ञापितः । तदा तेन मङ्गलेनोक्तम् - प्रिये ! पुनरप्यहं देहचिन्तार्थं गन्तुकामोऽस्मि, उदरार्तिरसदृशी विद्यते । त्वया जलपात्रं शीघ्रं नानेतव्यम् । क्षणमेकं प्रतीक्ष्य समागन्तव्यम् । इत्युदित्वा मन्त्रिमन्दिरान्निर्ययौ । तदा तेन मन्त्रिसमीपे पृष्टम् - मामकीनं राजदत्तं तुरगादिवस्तु क्वास्ति ? । तेनोक्तम् - तत्सर्वमुज्जयिन्याः पथि संस्थितमस्ति । ततस्तत्र गत्वा सारतरं वस्त्वेकस्मिन् रथे निक्षिप्य तस्मिन् रथे चतुरोऽश्वान् योजयित्वा पृष्ठतश्चैकं बद्ध्वा शेषकं कियद्वस्तु तत्रैव मुक्त्वा स प्रचलितः । अनेनोज्जयिनीपथि स्थिता ग्रामाः पृष्टास्तदा मन्त्रिभृत्यैर्नामग्राहं सर्वेऽपि मार्गग्रामाः कथिताः । ततः स मङ्गलकुम्भो रथाधिरूढस्तेन मार्गेण प्रचलन् स्तोकैरेव दिनैः स्वां नगरीं प्राप्तः । इतश्च तत्पितरौ सर्वत्रापि तं विलोक्य बहुधा विलप्य कियद्भिर्वा - सरैर्विगतशोकौ जातौ स्तः । एकदा मङ्गलस्य जननी गृहाभिमुखमायान्तं रथारूढं तं निरीक्ष्यानुपलक्ष्य च ससम्भ्रमं चैवमुवाच - " भो राजपुत्र ! त्वया गृहमध्ये रथः कथं प्रेर्यते ? पुरातनं मार्गं त्यक्त्वा किं नवीनं मार्ग करोषि ? इत्थं निवार्यमाणोऽपि यावत्स न तिष्ठति तावता श्रेष्ठिन्या समाहूयाकुलचेतसा श्रेष्ठिने समाचख्ये । तदा श्रेष्ठ्यपि तन्निषेधार्थं गृहाद् यावन्निःसरति, तावत्स मङ्गलकुम्भो रथात् समुत्तीर्य पितुश्चरणौ ननाम | ततस्ताभ्यामुपलक्ष्य सहर्षं यथा भवति तथा स मङ्गलतनयो गाढतरमालिङ्गितः । हर्षाश्रूणि मुञ्चन्तौ समग्रं कुशलादिगमनागमनवृत्तान्तं पप्रच्छतुः । तथा ऋद्धिप्राप्त्यादिका वार्ता पृष्टा । तदा तेन स्वकीयसमाचारः समग्रोऽपि पित्रोरग्रे प्रोक्तः । तदा पितृभ्यां चित्ते इति चिन्तितम् - अहो ! पुत्रस्य महद्भाग्यं सौभाग्यम् च । ततः स श्रेष्ठी स्वगेहं प्राकारगुप्तमकारयत् । तत्राश्वपञ्चकं सुगुप्तस्थाने तिष्ठति । श्रेष्ठिगृहे Osta Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324