________________
२१८ • मङ्गलकलशकथानकम्
प्रेष्य प्रस्तावो ज्ञापितः । तदा तेन मङ्गलेनोक्तम् - प्रिये ! पुनरप्यहं देहचिन्तार्थं गन्तुकामोऽस्मि, उदरार्तिरसदृशी विद्यते । त्वया जलपात्रं शीघ्रं नानेतव्यम् । क्षणमेकं प्रतीक्ष्य समागन्तव्यम् । इत्युदित्वा मन्त्रिमन्दिरान्निर्ययौ । तदा तेन मन्त्रिसमीपे पृष्टम् - मामकीनं राजदत्तं तुरगादिवस्तु क्वास्ति ? । तेनोक्तम् - तत्सर्वमुज्जयिन्याः पथि संस्थितमस्ति । ततस्तत्र गत्वा सारतरं वस्त्वेकस्मिन् रथे निक्षिप्य तस्मिन् रथे चतुरोऽश्वान् योजयित्वा पृष्ठतश्चैकं बद्ध्वा शेषकं कियद्वस्तु तत्रैव मुक्त्वा स प्रचलितः । अनेनोज्जयिनीपथि स्थिता ग्रामाः पृष्टास्तदा मन्त्रिभृत्यैर्नामग्राहं सर्वेऽपि मार्गग्रामाः कथिताः । ततः स मङ्गलकुम्भो रथाधिरूढस्तेन मार्गेण प्रचलन् स्तोकैरेव दिनैः स्वां नगरीं प्राप्तः ।
इतश्च तत्पितरौ सर्वत्रापि तं विलोक्य बहुधा विलप्य कियद्भिर्वा - सरैर्विगतशोकौ जातौ स्तः । एकदा मङ्गलस्य जननी गृहाभिमुखमायान्तं रथारूढं तं निरीक्ष्यानुपलक्ष्य च ससम्भ्रमं चैवमुवाच - " भो राजपुत्र ! त्वया गृहमध्ये रथः कथं प्रेर्यते ? पुरातनं मार्गं त्यक्त्वा किं नवीनं मार्ग करोषि ? इत्थं निवार्यमाणोऽपि यावत्स न तिष्ठति तावता श्रेष्ठिन्या समाहूयाकुलचेतसा श्रेष्ठिने समाचख्ये । तदा श्रेष्ठ्यपि तन्निषेधार्थं गृहाद् यावन्निःसरति, तावत्स मङ्गलकुम्भो रथात् समुत्तीर्य पितुश्चरणौ ननाम | ततस्ताभ्यामुपलक्ष्य सहर्षं यथा भवति तथा स मङ्गलतनयो गाढतरमालिङ्गितः । हर्षाश्रूणि मुञ्चन्तौ समग्रं कुशलादिगमनागमनवृत्तान्तं पप्रच्छतुः । तथा ऋद्धिप्राप्त्यादिका वार्ता पृष्टा । तदा तेन स्वकीयसमाचारः समग्रोऽपि पित्रोरग्रे प्रोक्तः । तदा पितृभ्यां चित्ते इति चिन्तितम् - अहो ! पुत्रस्य महद्भाग्यं सौभाग्यम् च । ततः स श्रेष्ठी स्वगेहं प्राकारगुप्तमकारयत् । तत्राश्वपञ्चकं सुगुप्तस्थाने तिष्ठति । श्रेष्ठिगृहे
Osta
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org