________________
श्रीभावचन्द्रसूरिविरचितम् • २१७ दम्पती भ्रामितौ । चत्वारि मङ्गलानि प्रवर्तितानि । प्रथमे मङ्गले राजा वराय भूयांसि चारुवस्त्राणि प्रादात् । द्वितीये मङ्गले वस्त्राभरणान्यदात् । तृतीये मङ्गले मणिस्वर्णादि ददौ । चतुर्थे मङ्गले रथादिकं दत्तवान् । तयोर्दम्पत्योरित्थं विवाहोत्सवः सञ्जज्ञे । विवाहोत्सवे सञ्जाते यदा जामाता वधूहस्तं न मुञ्चति, तदा राज्ञोक्तं-वत्स ! तव किं यच्छामि ? इत्युक्ते तेन जात्यघोटकपञ्चकं ययाचे । तदा नरेन्द्रः हर्षभरनिर्भराङ्गतया तत्क्षणमेव याचितान् पञ्चाश्वान् तस्मै जामात्रे ददौ । ततस्तूर्यैर्वाद्यमानैः सुन्दरीधवलोच्चारैर्बन्दिवृन्दरवैर्जायमानैः सवधूकः स मङ्गलः सचिवेन यदा स्वगृहे निन्ये, तदा निशायां मन्त्रिगृहजनैश्छन्नं छन्नमेवं जजल्पेके नाप्युपायेन शीघ्रमेवायं निष्कास्यते । तथा सा त्रैलोक्यसुन्दरी चेष्टिताकारैर्भर्तारं चलचित्तं ज्ञात्वा तस्योपान्तं न मुमोच । ततः क्षणान्तरेण स देहचिन्तार्थमुत्थितः । तदनु सा राजसुता जलपात्रं गृहीत्वा पृष्ठत एव ययौ । तदा स पयसा पवित्रीभूय गृहमध्ये समेतः । परन्तु सचिन्तोऽस्ति । तस्मिन्नेवावसरे तया त्रैलोक्यसुन्दर्या रह:स्थितं स्वपति शून्यचित्तं दृष्ट्वा इत्थं बभाषे-हे प्राणेश ! किं भवतां क्षुधा बाधते ? । आमेति तेन भणितम् । सा दासीहस्तेन पितृगेहान्मोदकानानाय्य तस्मै ददौ । तेषु मोदकेषु भुक्तेषु पानीयं पिबता तेनेति प्रोक्तम्-अहो ! ईदृशेषु सिंहकेसरमोदकेष्वास्वादितेषु यधुज्जयिन्या नगर्या नीरं लभ्यते, तर्हि भव्या तृप्तिः स्यात्, न चान्यथा । तद्वाक्यं श्रुत्वा व्याकुलमानसा राजपुत्री दध्यौअहो ! अघटमानं किं जल्पति ? अयमुज्जयिनीजलमिष्टत्वं कथं जानाति ? अथवा त्वस्य मातृकुलं तत्र भविष्यति । तेन दृष्टपूर्वतया तत्स्वरूपं जानन् भविष्यति । ततश्च तया निजहस्तेन पञ्चसौगन्धिकं ताम्बूलं स्वभत्रै मुखपाटवकरणाय ददे । ततः क्षणान्तरेण मन्त्रिणा मानुषं
Sice
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org