________________
२१६ • मङ्गलकलशकथानकम् अस्याहं मान्यः सुबुद्धिनामा मन्त्री । मया त्वं महता कारणेन समानीतोऽसि । तदा तेन पृष्टम्-किं कारणं ? अथ सुबुद्धिः प्राह-भोः ! शृणु, राज्ञा त्रैलोक्यसुन्दरी पुत्री विवाहयितुं मत्पुत्राय दत्ता । पुनः स कुष्ठाभिभूतोऽस्ति । अतः कारणाद्धे भद्र ! त्वया सा परिणीय मत्सुताय दातव्या इत्यर्थे त्वमानीतः । तद्वचो निशम्य मङ्गलः प्रोवाच-भो मन्त्रिन् ! एतावन्मात्रमकृत्यं किं करोषि ? सा रूपवती बाला क्व ? तव कुष्टी सुतः क्व ? अहमेतावन्निष्ठुरं कर्म न करिष्यामि । मुग्धं जनं कूपे क्षिप्त्वा वरत्राकर्तनं कः कुरुते ? तदा मन्त्री प्राह-रे दुष्ट ! यद्येवं कर्म न करिष्यसि, तदाहं त्वां निजहस्तेन मारयिष्यामि । सुबुद्धिमन्त्रिणा खड्गमाकृष्य निस्त्रिंशं हक्कितोऽपि स कुलीनशिरोमणिरकृत्यं नानुमेने । तदा प्रधानपुरुषैर्मन्त्री तद्वधान्निषिद्धः, तस्य मङ्गलस्याप्युक्तम्-भो भद्र ! त्वं मन्त्रिवचो मन्यस्व । विचक्षणैः प्रस्तावसदृशं क्रियते । इति श्रुत्वा तेनापि मनसि चिन्तितम्-एवमेव नूनं भाव्यमस्ति । अन्यथा ममोज्जयिनीत इहागमनं कथं स्यात् ? । व्योमवाण्याऽपि पुरा इत्थमुक्तम् । तस्मादहमप्येवं करोमि । यद् भाव्यं तद् भवत्येव । इति विचिन्त्य मङ्गलः पुनरेवं स्माह सचिवं प्रति-इदं यदि निघृणं कर्म कृतमेव विलोक्यते, तदाऽहमपि भवत्पार्श्वे किमपि प्रार्थयामि । इत्युक्ते सचिवः सानुकूलो बभाषे–भो भद्र ! कथय । तेनोक्तम्-यद् वस्तु राजा मे प्रयच्छति तत्सर्वं मामकीनमेव, तत्क्षणमेवोज्जयिन्याः पथि कर्तव्यम् । एतद् वाक्यं मन्त्रिणाऽनुमेने । ततो निकटस्थे लग्ने हस्तिनमारोप्य वस्त्रालङ्कारविभूषितः स नृपसमीपे निन्ये । तदा राजा प्रमुदितः । त्रैलोक्यसुन्दरी तं मन्मथोपमं वरं दृष्ट्वा तद्वरप्राप्त्या स्वं कृतार्थं मेने । ततश्च लग्नसमये विप्रेण पुण्याहं पुण्याहमिति जल्पता वह्निपरितश्चतुर्वारं
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org