________________
श्रीभावचन्द्रसूरिविरचितम् • २१५ दाय याति, स भाटकेन राजकन्यां परिणेष्यति । इति श्रुत्वा स बालो विस्मयमापन्नः किमेतदिति चिन्तयन् मनसि दध्यौ-गृहं गतस्तातस्य कथयिष्ये । यावता गृहे गतस्तावता विस्मृतम् । द्वितीयवासरेप्येवमेव श्रुतं, तदा मनसि व्यचिन्तयत्-अहो ! या वाणी कल्ये श्रुता, अद्यैव सा वाणी नभसि श्रूयमाणाऽस्ति । गतदिने पितुर्न कथितं, परं त्वद्य कथयिष्यामि । इति विचिन्तयन् यावद्गच्छन्नस्ति, तावता महावात्यया समुत्पाट्य स बालश्चम्पापूरीसमीपगे दूरतरारण्ये नीतः । तदा स भयभ्रान्तस्तृषाक्रान्तः श्रान्तो मानससर:समानमेकं सरोवरं दृष्ट्वा तत्र वस्त्रपूतं जलं पीत्वा स्वस्थीभूय दर्भतृणै रज्जु विधाय तया रज्ज्वा तदीयसेतुस्कन्धसमारूढं वटवृक्षमारुरोह । एतावता भानुरस्तमितः । ततो वटमारुह्य दिशो विलोकयति स्म । तदा उत्तराशायां समीपे एव ज्वलितानलं ददर्श । ततो वटात्समुत्तीर्य स भीत: शीतपीडितः सन् ज्वलनानुसारेण चम्पापुरीबहिःप्रदशे ययौ । तत्रागत्याश्वपालकसमीपे वह्निसेवां कर्तुं लग्नः । तदा तैरश्वरक्षकैः पुरुषैर्हस्यमा रित्युक्तम्-कोऽयं वराको बालकः ? कुतः समागतः ? । इति परस्परं वार्ता कुर्वत्सु तुरगारक्षकस्वामिना श्रुतम् । तदा तेन पूर्वसङ्केतं स्मरता बालः स्वसमीपे समानीतः निरुपद्रवः कृतः । ततश्च प्रातःसमयेऽतियत्नेन सचिवसमीपं प्रापितः । तदाऽमात्यो मुमुदे । स भव्यस्थाने स्थापितः, स्नानभोजनादिना सन्तोषितः । तदा मङ्गलकुम्भेन चिन्तितम्-ममायं सत्क्रियां कथं कुरुते ? तथा गोपयित्वा कथं रक्षितोऽहम् ? इति विमृश्य सचिवपार्वे पृष्टम्-मम वैदेशिकस्य किमर्थमयं सत्कार: ? तथा कैषा पुरी ? को वा देशः ? को वात्र भूपति: ? इत्यादि सत्यं प्रोच्यताम्, मम विस्मयोऽस्ति । इति श्रुत्वाऽमात्योऽवादीत्-इयं चम्पापुरी । अङ्गाभिधो देशः । सुरसुन्दरोऽत्र राजा।
Dise
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org