________________
२१४ • मङ्गलकलशकथानकम् रूपेण सुराङ्गगनासमास्ति । मत्पुत्रः स कुष्ठरोगाभिभूतः । तयोर्योगं जानन् कथं करोमि ? इति चिन्तातुरतया तस्य सर्वमपि भोजनादि विस्मृतम् । एवं चिन्तयतो बुद्धिरुत्पन्ना-मदीया कुलदेवी सुप्रभावाऽस्ति । तदाराधनं करोमि । तत्प्रसादात्सर्वं समीहितं भविता । इति ध्यात्वा मन्त्री विधिना कुलदेवतामाराधयत् । ततः सा प्रत्यक्षीभूय जजल्प–मन्त्रिन् ! किमर्थमहं ध्यातास्मि ? मन्त्र्यूचे-मातस्त्वं स्वयमेव सर्वं वेत्सि । पुनस्तथापि मम कथयतः शृणु-मत्पुत्रो दुष्टेन कुष्ठव्याधिना पराभूतोऽस्ति । तथा कुरु, यथा स नीरोगतां भजते । इत्युक्ते देवी प्राह-पुराकृतकर्मयोगाद् या व्याधिवेदना जाता, सा मयाप्यपाकर्तुं न शक्यते । तवैषा प्रार्थना वृथा । इत्युक्ते पुनरपि मन्त्री विमृश्य बभाषे–यद्येवं न स्यात् तर्हि कमप्यन्यं पुरुषं तदाकारं निरामयं कुतोऽप्यानीय मम समर्पय, यथाहं नृपपुत्रीं तेनोद्वाह्य स्वपुत्राय ददामि । तस्य यथोचितं करिष्ये । इत्युक्ते देवी प्राह-हे मन्त्रिन् ! पुरीद्वारे तुरङ्गमरक्षकनरसमीपे शीतनिवारणार्थमग्निसेवातत्परो यः कश्चिद्बालको मया कुतोऽप्यानीय मुक्तो भवति, स भवता ग्राह्यः । पश्चाद् यथोचितं कर्तव्यम् । इत्याख्याय देवी तिरोदधे । तेन वाक्येन सचिवो हृष्टः सन् सर्वविवाहसामग्री का लग्नः । तदनन्तरं मन्त्रिणा स्वतुरङ्गमरक्षकनरं प्रच्छन्नतया समाहूय तस्मै सर्ववृत्तान्तं निवेद्य सादरमावेदितम् । इदमूचे-यः कोऽपि बालकः कुतोऽपि भवदन्तिके समभ्येति, स त्वया शीघ्रं समानीय ममार्पणीयः । इत्युक्ते तेनाश्वरक्षकेणाङ्गीकृतम् ॥
___ इतश्च देवता ज्ञानेन तस्या राजपुत्र्यास्तं श्रेष्ठिसुतं भाविनं वरं विज्ञायोज्जयिन्यां महापुर्यां ययौ । तत्र गत्वा यथा स मङ्गलकुम्भः पुष्पाण्यानयन् शृणोति तथा व्योमस्थैवमुवाच य एष बालकः पुष्पाण्या
05/09
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org