________________
श्रीभावचन्द्रसूरिविरचितम् • २१३
1
अत्रैव भरतक्षेत्रे चम्पा नाम महापुरी विद्यते । तत्र सुरसुन्दरो राजा । राज्ञी गुणावली । एकदा सा स्वप्नमध्ये निजोत्सङ्गे कल्पलतां दृष्ट्वा जागरूका सती भर्तुः कथयामास । तदा राज्ञा स्वधिया विचार्य प्रोक्तम्— एतत्स्वप्नप्रभावात्सर्वलक्षणसम्पूर्णा पुत्री भविष्यति । इति निशम्य सा मुमुदे । ततः परिपूर्णसमये सुता प्रसूता । महीपेन तस्यास्त्रैलोक्यसुन्दरीति नाम विदधे । क्रमेण प्रवर्धमाना तारुण्यं वयः प्राप्ता सती लावण्यसौभाग्यनिकेतनं जाता । एकदा तां मनोहराङ्गी सुतां दृष्ट्वा राजा हृदि वरचिन्तामकरोत् तदान्त: पुरीभिर्विज्ञप्तम् - राजन्नेषा बालिकाऽस्माकं जीविताधारः । एतद्विरहं सोढुं वयं न क्षमाः । अतः कारणादस्या विवाहचिन्ता नान्यत्र कर्तव्या । अस्यामेव पुर्यां मन्त्रिसुबुद्धिपुत्राय चैषा दातव्या । इति स्त्रीणां वचो निशम्य नृपो हृदि दध्यौ - नूनं विवाहादिकार्ये पुरन्ध्रीणामेव प्राधान्यम् इति विचिन्त्य भूपेन सुबुद्धिनामा सचिव: समाहूतः । बहुमानपूर्वकमिति भाषितः- भो मन्त्रिन् ! मया मत्सुता त्वत्सूनवे दत्ता, विवाहोत्सवः क्रियते । इत्युक्ते मन्त्रिणोक्तम्स्वामिन्नयुक्तं किं वदसि ? त्वत्पुत्री कस्मैचिद् राजसूनवे घटते, न तु मम पुत्राय । यदुक्तम्
ययोरेव समं वित्तं, ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च, न तु पुष्टविपुष्टयोः ॥१॥
इति मन्त्रिवचः श्रुत्वा राजा पुनरप्याह- इत्यर्थे मन्त्रिन् ! त्वया न किमपि वाच्यम् । एतत्कार्यमित्थमेव भविष्यति । संशयो न विधेयः । पार्षद्यैरप्युक्तम् - हे मन्त्रिन्नृपवाक्यं तथेति क्रियते । तदा मन्त्री नृपवचोऽनिष्टमप्यनुमेने । ततो मन्त्री गृहं गत्वा कृतावसक्थिक उपविष्टः । चित्ते चिन्तयितुं लग्न: - हा ! व्यघ्रदुस्तटीपतितोऽस्मि, किं करोमि ? राज्ञः पुत्री
Libya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org