________________
२१२ • मङ्गलकलशकथानकम् सत्यापयन् परया भक्त्या चैत्यवन्दनां विदधे । ततः साधून्नत्वा विधि विधाय प्रत्याख्यानं कृत्वा सुमुनीनां संविभागं चक्रे । एवं तस्य श्रेष्ठिनः समस्तमप्याह्निकं रात्रिकं सर्वशर्मकृद्धर्मकर्म कुर्वतः शासनाधिष्ठायिनी देवी सन्तुष्टा पुत्रवरं प्रत्यक्षीभूय ददौ । तेन वचसा स प्रमुदितः श्रेष्ठी । इतश्च पुण्यप्रसादाद् देवतादेशाच्च श्रेष्ठिनी यस्यां रात्रौ पुत्रगर्भं दधौ, तस्यां निशि तया स्वप्ने हेममयः पूर्णकलशो मङ्गलान्वितो दृष्टः । तदा सा जजागार । प्रमुदिता समभूत् । क्रमेण परिपूर्णसमये शुभवेलायां पुत्रो जातः । तदा महोत्सवो बभूव । पित्रा दीनदुःस्थितानां स्वर्णरत्नादिदानं दत्त्वा समग्रस्वजनमेलापकसमक्षं स्वप्नानुसारेण मङ्गलकलश इति नाम व्यधीयत । ततः स क्रमेण प्रवर्धमानो विद्याभ्यासं कुर्वन्नष्टवर्षप्रमाणोऽजनिष्ट । अन्यदा तेनेति पृष्टम्-हे तात ! नित्यं त्वं प्रातः समुत्थाय क्व यासि ? तदा पित्रा प्रोक्तम्-प्रतिदिनं देवपूजार्थं वाटिकायां पुष्पग्रहणार्थं यामि । सुतेनोचे-अहमपि सार्थे समेष्यामि इत्युक्ते जनकेन वार्यमाणोऽपि तद्दिने सार्थे ययौ । आरामिकेण श्रेष्ठिसुतं विज्ञाय तस्य बालकस्य प्रीतये नारिङ्गजम्बीरककरणादीनि सुस्वादूनि फलानि दत्तानि। ततः श्रेष्ठी प्रसूनान्यादाय सपुत्रः स्वगृहे गतः । तस्मिन् दिने श्रेष्ठिना पुत्रेण सह स्नानाऽर्चनभोजनादि कृतम् । ततः सुतो लेशखालामगात् । तदनन्तरं द्वितीयवासरे महताऽऽग्रहेण वाटिकायां पुत्र एकाक्येव पुष्पाण्यादातुं ययौ । आरामतश्चारुपुष्पाणि गृहीत्वा समागात् । ततस्तेन पितुरित्थं निवेदितम्-अथाहमेव कुसुमग्रहणाय यास्यामि । ततो भवद्भिर्धर्मध्यानपरैः स्वगृह एव स्थातव्यम् । तदीयवचसा तेनानुमतम् । ततो निरन्तरं वाटिकातः सुतः कुसुमान्यानयति । श्रेष्ठी सुखेन देवार्चनं करोति । एतावता यज्जातं, तन्निशम्यताम्
Asya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org