________________
८. श्रीभावचन्द्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥
उज्जिन्यां महापुर्यां वैरसिंहो राजा तत्प्राणवल्लभा सोमचन्द्रा प्रियाऽभूत् । धनदत्तनामा श्रेष्ठीपुङ्गव आसीत् । स किं लक्षण: ? सुविनीतः सत्यशीलदयान्वितो गुरुदेवार्चनत्परः परोपकारप्रवण ईदृशः श्रेष्ठी । तद्भार्या सत्यभामा । सापि सुशीला पत्यौ प्रेमपरा, परन्तु सन्तानविवर्जिताऽस्ति । एकदा सा श्रेष्ठिनं सुतचिन्ताम्लानवदनं वीक्ष्य पप्रच्छ - हे कान्त ! किं ते दुःखस्य कारणं ? तदा श्रेष्ठी यथातथं बभाषे । तद्वचः श्रुत्वा श्रेष्ठिनी पुनरप्याह - हे प्राणनाथ ! चिन्तयाऽलम् । इहलोके परलोके च नृणां समीहितार्थदायको धर्म एव । अतः कारणत् स एव विशेषेण सेवनीयः सुखेन । इत्युक्ते श्रेष्ठिना जगदे कया युक्त्या धर्मः क्रियते ? तत्प्रिये ! कथ्यताम् । श्रेष्ठिनी प्राह - हे स्वामिन्! देवाधिदेवश्रीजिनविषये पूजां सुगुरोर्भक्ति कुरुष्व पात्रेभ्यो दानं देहि, सिद्धान्तपुस्तकानि लेखय, एवं धर्मध्यानं कुर्वतो यदि पुत्रो भावी, तदा वरं, कदाचित् पुत्रो न भविता, तर्हि नाथ ! परलोके निर्मलमखण्डसौख्यं भविष्यति । एतद्वाक्यं श्रुत्वा श्रेष्ठी हृष्टोऽवादीत् - प्रिये ! त्वया साधूक्तम्। सम्यगाराधितो धर्मश्चिन्तामणिकल्पद्रुमतुल्यतां दधाति इति निश्चित्य स्वमनसि देवपूजार्थं पुष्पग्रहणाय श्रेष्ठिनाऽऽरामिकं समाकार्य तस्मै धनं घनं ददे । ततश्च प्रत्यहं निरन्तरमेव प्रगे समुत्थाय श्रेष्ठी स्वयमेव वाटिकां गत्वा सद्यः कुसुमान्यानीय स्वगृहप्रतिमाऽर्चनं विधाय नगरमद्यस्थजिनालये गच्छति । तत्र नैषेधिकीमुख्यान् यथास्थानं दश त्रिकान्
Ciste
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org