________________
श्रीभावचन्द्रसूरिविरचितम् • २१९ वर्धापनाद्युत्सवा जाताः । अथान्यदा स मङ्गलकलशः पितरं प्राह-तात ! ममाद्यापि कलाभ्यासः कर्तव्योऽस्ति । इत्युक्ते जनकेन स्वसदनान्तिके कलाचार्यसमीपे विद्याभ्यासाय स मुक्तः तत्र कलाभ्यासं कुरुते ।।
इतश्च तेन मन्त्रिणा रात्रौ मङ्गलवेषधारी वासवेश्मनि वधूपान्ते स्वसुतः प्रेषितः । तदा त्रैलोक्यसुन्दरी तं शय्याधिरूढं दृष्ट्वा हृदि दध्यौ-कोऽयं कुष्टाभिभूतो ममान्तिके समेतः ? । अथ स यावत्करस्पर्श कर्तुमुद्यतो भवति, तावत्सा सुन्दरी शयनात्समुत्तीर्य झटित्येव गेहाद् बहिस्तत्र ययौ यत्र दासीवर्गः सुप्तोऽस्ति । तदा दासीभिरुक्तम्-स्वामिनि ! कथं ससम्भ्रमाऽसि ? । इत्युक्ते साऽवादीत्–स देवतारूपी मत्पति: क्वापि गतः । ताः प्रोचुः-इदानीं स त्वत्पतिर्गृहमध्ये प्रविष्टः । तदा तया प्रोचे–स मत्पतिर्न समेतः । कोऽपि कुष्ठी समेतोऽस्ति । ततः सा दासीमध्ये सुप्ता । तां रात्रि व्यतिक्रम्य त्रैलोक्यसुन्दरी प्रातः स्वपितृगृहं ययौ । ततः प्रभातसमये सुबुद्धिसचिवः कुबुद्धिप्रेरितो महीपतेः सकाशं गत्वा चिन्ताश्याममुखस्तस्थौ । तदा भूपतिना पृष्टम्-मन्त्रिन् ! किं हर्षस्थाने विषादः ? । मन्त्रिणोक्तम्-राजन् ! मम कर्मदोषेण हर्षस्थाने विषाद एव समजनिष्ट । राज्ञा पृष्टम्-किं जातम् ? । तदा स जगाद-यतः
चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥१॥
- [अजितप्रभसूरिकृते शां० चरित्रे-१-२०२] पुनरपि भूपो दुःखकारणं पप्रच्छ । तदा स सचिवो दीर्घं निःश्वस्य बभाषे-अहं दैवेन मुषितः । मम पुत्रो यादृशोऽभूत् तादृशो नरेन्द्रेणापि दृष्टः । स च साम्प्रतं त्वत्सुतासम्पर्केण कुष्ठी जातः । किं कथ्यते ? कस्याग्रे पूत्क्रियते ? । इत्युक्ते राजापि दुःखभाग् बभूव, इत्थं मनसि
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org