________________
२२० • मङ्गलकलशकथानकम्
चिन्तयति स्म - नूनं सा मम नन्दिनी निर्लक्षणास्ति । तदङ्गप्रभावेनैव मन्त्रितनयः कुष्टी जातः । जगति सर्वे जन्तवः स्वस्वकर्मफलभोक्तारः, परं त्वन्यो निमित्तमात्रं स्यात्
सुखदुःखानां कर्ता, हर्ता न कोऽपि कस्यचित्पुंसः ।
इति चिन्तय सद्बुद्ध्या, पुराकृतं भुज्यते कर्म ||१|| [आर्या] इति विमृश्य राज्ञोक्तम् - हे मन्त्रिन् ! अहमेव तव पुत्रायानर्थं कृतवान्। यद्यहं मत्पुत्रीविवाहं नाकरिष्यम् तर्हि त्वत्पुत्रः कुष्ठाभिभूतः कथमभविष्यत् ? इत्युक्तेऽमात्योऽब्रवीत्-स्वामिन् ! हितकार्यं कुर्वतां भवतां को दोषः ? मत्कर्मणामेव दोषोऽयम् । अथ मन्त्री समुत्थाय स्वस्थानमगात् । सा त्रैलोक्यसुन्दरी राज्ञः परिजनस्य च प्रियाप्यप्रिया जाता । न कोऽपि तामाऽऽललाप । न कोऽपि तां दृष्ट्याप्यालोकयति स्म। मातृगृहपृष्ठत एकत्र गुप्तगेहे साऽस्थात् । इति चिन्तयति - मया पूर्वं किं दुष्कर्म विदधे ? येन दुष्कर्मणा मम परिणीतपतिः क्वापि नंष्ट्वा गतः । अन्यच्च लोकमध्ये महान् कलङ्क उपस्थितः । अथाहं किं करोमि ? क्व गच्छामि ? कस्याग्रे कथयामि ? महति व्यसने पतिता - ऽस्मि । इति चिन्तयन्त्यास्तस्याश्चित्ते समुत्पन्नम् - नूनं मे परिणीत: पतिरुज्जयिन्यां गतो भविष्यति । तेन तदा मोदकान् भक्षयित्वा इत्यालापितं—एते मोदकास्तर्हि भव्या यद्यवन्तिजलमुपरि स्यात् । इत्यभिज्ञानेन स मत्पतिस्तत्र संभाव्यते । केनाप्युपायेन यद्यहं तत्र गच्छामि तर्हितं प्रकटीकृत्य सुखभागिनी भवामि । एवं चिन्तयन्ती स्थिताऽस्ति । अथान्येद्युः सा जननीं प्रति प्राह - हे मातः ! तथा कुरु, यथा मत्पिता वारमेकं मम वाक्यं शृणोति । इत्युक्तेऽपि तां मन्दादरां दृष्ट्वा अन्यदा सा सुन्दरी सिंहनामकं सामन्तं प्रति स्वमर्थं विज्ञापयामास । तदा तेन
5429
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org