________________
श्रीभावचन्द्रसूरिविरचितम् • २२१ सामन्तेन साद्यन्तं तं समाचारं श्रुत्वा हृदये विचार्य तस्या एवमुक्तम्वत्से ! अधृतिर्न विधेया । प्रस्तावे नृपं विज्ञाप्य ते समीहितं करिष्ये । इति वचसा नृपाङ्गजा तुष्टा । तेन प्रस्तावं लब्ध्वा भव्ययुक्त्या राजानं विज्ञाप्येत्युक्तम्-हे नृपते ! भवन्नन्दिनी वराकिका बालिका महति कष्टे पतिताऽस्ति । अस्याः सन्मानदानं दूरे तिष्ठतु । वाक्य श्रवणमात्रेण प्रसादोऽद्य विधीयताम् । पार्थिवोऽप्यश्रुपूर्णाक्षः सिंहसामन्तं प्रत्युवाच-भो सामन्त ! अनया मत्सुतया पूर्वभवे किञ्चिदभ्याख्यानादि दुष्कृतं कृतं, तत्प्रभावादियं सकलङ्का जाता, अस्माकमप्यनिष्टाऽभूत् । पुनस्तथाप्यसौ यत्किञ्चित्कथायितुमिच्छति, तन्ममाग्रे कथयतु । इत्युक्ते त्रैलोक्यसुन्दरी प्रति सिंहसामन्तेनोक्तम्-वत्से ! स्वामिनोऽग्रे स्वचिन्तितं वचनं वद । ततः सा त्रैलोक्यसुन्दरी तत्र नृपसमीपमागत्य वचनमिति प्रोवाच-तात ! मम कुमारोचितं वेषं देहि । इति श्रुत्वा राजा प्राह-भो सामन्त ! वराकीयं किमसंबद्धं वचो वक्ति ? । तदा स सामन्तोऽवदत्-राजन्ननया युक्तमुक्तम् । पुराप्ययं क्रमोऽस्ति । यतो राजसुता गुरुकार्यविशेषेण पुंवेषं दधते । इत्यर्थे न किमप्ययुक्तम् । संशयो न कार्यः पुंवेषो दीयताम् । अथ भूपः सिंहसामन्तोक्तमिति वचो युक्तियुक्तं मत्वा तस्यै पुंवेषं ददौ । तथा च तद्रक्षार्थं सैन्यान्वितं सिंहं चादिदेश । पुनः सुन्दरी प्राह-यदि तातादेशो भवेत् तहि महता कारणेनोज्जयिनीं यामि । समीहिते जाते तत्कारणं कथयिष्ये । इत्युक्ते राजा प्राह-पुत्रि ! यथा स्ववंशस्य दूषणं न स्यात् तथा कर्तव्यम् । इत्युदित्वा महीभुजा सा विसृष्टा । ततश्च सिंहसामन्तादिभूरिसैन्यसमन्विता सा सुन्दरी पुरुषवेषधारिणी पितुरादेशं प्राप्याखण्डितप्रयाणैरुज्जयिनीं ययौ । तदाऽवन्तीशो राजा वैरिसिंहः प्रजामुखादेवं शुश्राव-यतश्चम्पापुर्या नृपाङ्गजः समागच्छन्नस्ति । तदा
DISee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org