________________
२२२ • मङ्गलकलशकथानकम्
T
परस्परप्रीत्या तस्या नृवेषधारिण्या अभिमुखयानादिसन्मानादिना स्वागतप्रश्नपूर्वकं पुरीं प्रवेश्य स्वसदने राज्ञा समानीता । आगमनकार्यं पृष्टं । तदा तयोक्तम्–आश्चर्यपूरितां भुवि ख्यातां कुतूहलादिमां नगरीं विलोकयितुं समेतोऽस्मि । ततो नरेन्द्रेण बभाषे - भो राजपुत्र ! त्वया मम गेह एव स्थातव्यम् । सुरसुन्दरराजस्य मम गेहस्य च नान्तरं चिन्त्यम् । इत्युक्ते सा नृपसुता सबलवाहना राजढौकितगेहे तस्थौ । तत्र स्थित्वा सा स्वपदातीन् स्वादीष्टजलाश्रयनिरीक्षणाय समादिदेश । तदा तैर्विलोक्य प्रोक्तम्पूर्वस्यां दिशि तन्नीरस्थानमस्ति । इत्युदिते सा सुन्दरी नृपाज्ञया तन्मार्गविहितावासेऽवस्त । अन्यदा सा तत्रस्था नीरपानार्थं गच्छतोऽश्वान्निरीक्ष्य हृदि दध्यौ - नूनमेते मम तातस्य तुरङ्गमाः इति निश्चित्य तेषामनुपदं स्वभृत्याः प्रस्थापिताः । तेषामित्युक्तम् - यत्रेमेऽश्वा यान्ति यत्र तिष्ठन्ति तत्र भवदद्भिर्गत्वा तदीयधामनामादि ज्ञात्वा समागन्तव्यम् । इत्युक्ते तैर्भृत्यैः सर्वं स्थानाभिधानादि विज्ञाय प्रोक्तम् । तथा मङ्गलकलशं कलाभ्यासपरं ज्ञात्वा त्रैलोक्यसुन्दरी सिंहसामन्तं प्रत्युवाच'केनाप्युपायेन तुरङ्गमा आत्मीया गृह्यन्ते । इत्युक्ते सिंहेनोक्तम् - आसन्नलेखशालायाः सच्छात्रोऽध्यापको भोजनाय निमन्त्र्यताम् । तथेत्युक्ते भोजनादिसामग्रीं विधाय स निमन्त्रितः । प्रस्तावे समेतः । तत्सार्थे स्वपतिं दृष्ट्वा सा मनसि मुमुदे । तदा प्रमोदादात्मीयमासनं स्थालं (च) मङ्गलाय दत्त्वा विशेषगौरवमकरोत् । सादरं भोजनं दत्वा सर्वेभ्यो वस्त्राण्यदात् । मङ्गलाय स्वाङ्गलग्नं रम्यं वासोयुग्मं ददौ । ततः कलाचार्यमित्याह एतेषां मध्याद् यो जानाति, स च्छात्रो ममाग्रे कथां कथयतु । इति निर्दिष्टे सर्वैरपि च्छात्रैर्मङ्गलकलशस्य विशेषभक्ति दृष्ट्वा कोपादिति जल्पितम्–अस्माकं मध्ये कथां मङ्गल एव कथयिष्यति ।
estaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org