________________
श्रीभावचन्द्रसूरिविरचितम् • २२३ सर्वच्छात्रानुज्ञया पण्डितेन मङ्गलकलशस्यैवादेशो दत्तः । तदा स पण्डितगिरा वक्तुमेवं प्रचक्रमे-भोः ! कथानकं कल्पितं वाऽनुभूतं कथयामि ? । इत्युक्ते कुमारवेषधारिण्या नृपपुत्र्या बभाषे-कल्पितेन पर्याप्तमनुभूतमेव त्वरितं ब्रूहि । इति भाषिते मङ्गलश्चिन्तयामास-सैषा त्रैलोक्यसुन्दरी भवति, या मया चम्पापुर्यां भाटकेन कन्या परिणीताऽभूत् । केनापि हेतुना नृवेषं धृत्वा समेताऽस्ति । इति विमृश्य निजं स्वरूपं कथयितुं लग्नः सादिमध्यावसानं निजं चरित्रं तावत्कथितं यावत्सुबुद्धिमन्त्रिणा स्वगृहान्निर्वासितः । अत्रान्तरे राजसुता कृत्रिमं कोपं विधाय प्राह-भो ! भो ! अमुं मिथ्याभाषिणं गृह्णीत गृह्णीत । इत्युक्ते तस्याः पत्तयस्तद्ग्रहणार्थं समुद्यतास्ते च तयैव वारिताः । परन्तु स च गृहमध्ये समानीतः । अथैनमासन उपवेश्य नृपात्मजा सिंहसामन्तं प्रत्यूचेअहं येन परिणीताऽस्मि, स चायं मम प्रियो ज्ञेयः । अथात्र किं कर्तुं युज्यते ? । इत्युक्ते स प्रोक्तवान्-अयं चेत् तव भर्ता स्यात्तर्हि त्वयाऽऽश्रयणीयः इत्युक्ते सा प्राह-भोः सामन्त ! चेत् तव चित्ते संशयो भवति, तर्खेतद्गृहे गत्वा स्थाल्यादीन्यालोकय । इति व्यक्ते प्रोक्ते सामन्तः संशयं त्यक्त्वा श्रेष्ठिनं समाहूय वद्ध्वाः स्वरूपं कथयित्वा राजपुत्रीसमीपे समेतः । ततस्तस्यादेशेन सा स्त्रीवेषमुद्भूतं कृत्वा तस्य मङ्गलस्य वल्लभा बभूव । ततस्तुद्युग्मं श्रेष्ठिनः सदनं जगाम । पार्थिवोऽपि श्रेष्ठिनं समाहूय तं वृत्तान्तं पृष्ट्वा श्रुत्वा च मनसि विस्मयं दधौ । ततोऽनन्तरं स पुरुषवेषं लात्वा चम्पा ययौ । अमुना सिंहेन सर्ववृत्तान्ते कथिते राजा हृष्टो जजल्प-अहो ! मत्पुत्र्याः कलाकौशलं विलोक्यताम् । अहो ! अमात्यस्य पापबुद्धिर्विलोक्यताम् । येन मन्त्रिणा मत्पुत्री निर्दोषापि सदोषा कृता । इति चित्ते विचिन्त्य पुनरपि राजा सिंहसामन्तमुञ्जयिन्यां
lovag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org