Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 281
________________ २१६ • मङ्गलकलशकथानकम् अस्याहं मान्यः सुबुद्धिनामा मन्त्री । मया त्वं महता कारणेन समानीतोऽसि । तदा तेन पृष्टम्-किं कारणं ? अथ सुबुद्धिः प्राह-भोः ! शृणु, राज्ञा त्रैलोक्यसुन्दरी पुत्री विवाहयितुं मत्पुत्राय दत्ता । पुनः स कुष्ठाभिभूतोऽस्ति । अतः कारणाद्धे भद्र ! त्वया सा परिणीय मत्सुताय दातव्या इत्यर्थे त्वमानीतः । तद्वचो निशम्य मङ्गलः प्रोवाच-भो मन्त्रिन् ! एतावन्मात्रमकृत्यं किं करोषि ? सा रूपवती बाला क्व ? तव कुष्टी सुतः क्व ? अहमेतावन्निष्ठुरं कर्म न करिष्यामि । मुग्धं जनं कूपे क्षिप्त्वा वरत्राकर्तनं कः कुरुते ? तदा मन्त्री प्राह-रे दुष्ट ! यद्येवं कर्म न करिष्यसि, तदाहं त्वां निजहस्तेन मारयिष्यामि । सुबुद्धिमन्त्रिणा खड्गमाकृष्य निस्त्रिंशं हक्कितोऽपि स कुलीनशिरोमणिरकृत्यं नानुमेने । तदा प्रधानपुरुषैर्मन्त्री तद्वधान्निषिद्धः, तस्य मङ्गलस्याप्युक्तम्-भो भद्र ! त्वं मन्त्रिवचो मन्यस्व । विचक्षणैः प्रस्तावसदृशं क्रियते । इति श्रुत्वा तेनापि मनसि चिन्तितम्-एवमेव नूनं भाव्यमस्ति । अन्यथा ममोज्जयिनीत इहागमनं कथं स्यात् ? । व्योमवाण्याऽपि पुरा इत्थमुक्तम् । तस्मादहमप्येवं करोमि । यद् भाव्यं तद् भवत्येव । इति विचिन्त्य मङ्गलः पुनरेवं स्माह सचिवं प्रति-इदं यदि निघृणं कर्म कृतमेव विलोक्यते, तदाऽहमपि भवत्पार्श्वे किमपि प्रार्थयामि । इत्युक्ते सचिवः सानुकूलो बभाषे–भो भद्र ! कथय । तेनोक्तम्-यद् वस्तु राजा मे प्रयच्छति तत्सर्वं मामकीनमेव, तत्क्षणमेवोज्जयिन्याः पथि कर्तव्यम् । एतद् वाक्यं मन्त्रिणाऽनुमेने । ततो निकटस्थे लग्ने हस्तिनमारोप्य वस्त्रालङ्कारविभूषितः स नृपसमीपे निन्ये । तदा राजा प्रमुदितः । त्रैलोक्यसुन्दरी तं मन्मथोपमं वरं दृष्ट्वा तद्वरप्राप्त्या स्वं कृतार्थं मेने । ततश्च लग्नसमये विप्रेण पुण्याहं पुण्याहमिति जल्पता वह्निपरितश्चतुर्वारं svag Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324