Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 284
________________ श्रीभावचन्द्रसूरिविरचितम् • २१९ वर्धापनाद्युत्सवा जाताः । अथान्यदा स मङ्गलकलशः पितरं प्राह-तात ! ममाद्यापि कलाभ्यासः कर्तव्योऽस्ति । इत्युक्ते जनकेन स्वसदनान्तिके कलाचार्यसमीपे विद्याभ्यासाय स मुक्तः तत्र कलाभ्यासं कुरुते ।। इतश्च तेन मन्त्रिणा रात्रौ मङ्गलवेषधारी वासवेश्मनि वधूपान्ते स्वसुतः प्रेषितः । तदा त्रैलोक्यसुन्दरी तं शय्याधिरूढं दृष्ट्वा हृदि दध्यौ-कोऽयं कुष्टाभिभूतो ममान्तिके समेतः ? । अथ स यावत्करस्पर्श कर्तुमुद्यतो भवति, तावत्सा सुन्दरी शयनात्समुत्तीर्य झटित्येव गेहाद् बहिस्तत्र ययौ यत्र दासीवर्गः सुप्तोऽस्ति । तदा दासीभिरुक्तम्-स्वामिनि ! कथं ससम्भ्रमाऽसि ? । इत्युक्ते साऽवादीत्–स देवतारूपी मत्पति: क्वापि गतः । ताः प्रोचुः-इदानीं स त्वत्पतिर्गृहमध्ये प्रविष्टः । तदा तया प्रोचे–स मत्पतिर्न समेतः । कोऽपि कुष्ठी समेतोऽस्ति । ततः सा दासीमध्ये सुप्ता । तां रात्रि व्यतिक्रम्य त्रैलोक्यसुन्दरी प्रातः स्वपितृगृहं ययौ । ततः प्रभातसमये सुबुद्धिसचिवः कुबुद्धिप्रेरितो महीपतेः सकाशं गत्वा चिन्ताश्याममुखस्तस्थौ । तदा भूपतिना पृष्टम्-मन्त्रिन् ! किं हर्षस्थाने विषादः ? । मन्त्रिणोक्तम्-राजन् ! मम कर्मदोषेण हर्षस्थाने विषाद एव समजनिष्ट । राज्ञा पृष्टम्-किं जातम् ? । तदा स जगाद-यतः चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥१॥ - [अजितप्रभसूरिकृते शां० चरित्रे-१-२०२] पुनरपि भूपो दुःखकारणं पप्रच्छ । तदा स सचिवो दीर्घं निःश्वस्य बभाषे-अहं दैवेन मुषितः । मम पुत्रो यादृशोऽभूत् तादृशो नरेन्द्रेणापि दृष्टः । स च साम्प्रतं त्वत्सुतासम्पर्केण कुष्ठी जातः । किं कथ्यते ? कस्याग्रे पूत्क्रियते ? । इत्युक्ते राजापि दुःखभाग् बभूव, इत्थं मनसि svag Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324