Book Title: Mangal Kalash Charitra Sangraha
Author(s): Tirthbhadravijay
Publisher: Vijay Kanaksuri Prachin Granthmala

View full book text
Previous | Next

Page 280
________________ श्रीभावचन्द्रसूरिविरचितम् • २१५ दाय याति, स भाटकेन राजकन्यां परिणेष्यति । इति श्रुत्वा स बालो विस्मयमापन्नः किमेतदिति चिन्तयन् मनसि दध्यौ-गृहं गतस्तातस्य कथयिष्ये । यावता गृहे गतस्तावता विस्मृतम् । द्वितीयवासरेप्येवमेव श्रुतं, तदा मनसि व्यचिन्तयत्-अहो ! या वाणी कल्ये श्रुता, अद्यैव सा वाणी नभसि श्रूयमाणाऽस्ति । गतदिने पितुर्न कथितं, परं त्वद्य कथयिष्यामि । इति विचिन्तयन् यावद्गच्छन्नस्ति, तावता महावात्यया समुत्पाट्य स बालश्चम्पापूरीसमीपगे दूरतरारण्ये नीतः । तदा स भयभ्रान्तस्तृषाक्रान्तः श्रान्तो मानससर:समानमेकं सरोवरं दृष्ट्वा तत्र वस्त्रपूतं जलं पीत्वा स्वस्थीभूय दर्भतृणै रज्जु विधाय तया रज्ज्वा तदीयसेतुस्कन्धसमारूढं वटवृक्षमारुरोह । एतावता भानुरस्तमितः । ततो वटमारुह्य दिशो विलोकयति स्म । तदा उत्तराशायां समीपे एव ज्वलितानलं ददर्श । ततो वटात्समुत्तीर्य स भीत: शीतपीडितः सन् ज्वलनानुसारेण चम्पापुरीबहिःप्रदशे ययौ । तत्रागत्याश्वपालकसमीपे वह्निसेवां कर्तुं लग्नः । तदा तैरश्वरक्षकैः पुरुषैर्हस्यमा रित्युक्तम्-कोऽयं वराको बालकः ? कुतः समागतः ? । इति परस्परं वार्ता कुर्वत्सु तुरगारक्षकस्वामिना श्रुतम् । तदा तेन पूर्वसङ्केतं स्मरता बालः स्वसमीपे समानीतः निरुपद्रवः कृतः । ततश्च प्रातःसमयेऽतियत्नेन सचिवसमीपं प्रापितः । तदाऽमात्यो मुमुदे । स भव्यस्थाने स्थापितः, स्नानभोजनादिना सन्तोषितः । तदा मङ्गलकुम्भेन चिन्तितम्-ममायं सत्क्रियां कथं कुरुते ? तथा गोपयित्वा कथं रक्षितोऽहम् ? इति विमृश्य सचिवपार्वे पृष्टम्-मम वैदेशिकस्य किमर्थमयं सत्कार: ? तथा कैषा पुरी ? को वा देशः ? को वात्र भूपति: ? इत्यादि सत्यं प्रोच्यताम्, मम विस्मयोऽस्ति । इति श्रुत्वाऽमात्योऽवादीत्-इयं चम्पापुरी । अङ्गाभिधो देशः । सुरसुन्दरोऽत्र राजा। Dise Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324