Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ aira (उ० ) — वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या ज्ञातव्याः, ये वैक्रियनाम्न उदीरका उक्तास्ते एवास्यापि ज्ञेया इत्यर्थः । केवलं बादरपवनं - बादरवायुकायिकं हित्वा - परित्यज्य शेषा द्रष्टव्याः । 'आहारगाए' त्ति आहारकशरीरनाम्न उपलक्षणादाहारकाङ्गोपाङ्गस्याहारकबन्धनस्याहारकसङ्घातस्य च विरतः - संयतः विकुर्वन् - आहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन्नुदीरको भवति । उक्तं च- ' ' आहारसत्तगस्स वि कुणइ पमत्तो विकुव्र्व्वता" ति ॥ ९ ॥ छण्हं संठाणाणं संघयणाणं च सगलतिरियनरा । देहत्था पज्जत्ता उत्तमसंघयणिणो सेढी ॥१०॥ (०) — छण्हं संठाणाणं संघयणाणं सगलतिरियनरो-पंचिदियतिरिक्खो मणुस्सो वा देहत्थो - सरीरणामाए उदये वहमाणो 'पजत्तो' त्ति-लद्धिए णियमा पज्जत्तो उदीरेति । एगवयणग्गहणा - एगो सव्वाणि संघयणसंठाणाणि न उदीरेति, जं चेव उदिण्णं तं चेव उदीरति । 'उत्तमसंघयणिणो सेढि 'त्ति-वज्ररिसभसंघयणी सेढि पडिवज्जति, सेससंघयणिणो न पडिवज्जंतित्ति निदरिसेइ ॥१०॥ (मलय ० ) – 'छण्हं'ति । सकलाः पञ्चेन्द्रियास्तिर्यश्चो मनुष्याश्च देहस्थाः - शरीरनामोदये वर्तमाना लब्ध्या पर्याप्ताः षण्णां संस्थानानां षण्णां च संहननानामुदीरका भवन्ति । इहोदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषाम् । ततो यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति तत्तदोदीर्यते, नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहननिनो-वज्र भनाराचसंहननिनः श्रेणि:- क्षपकश्रेणिर्भवति, न शेषसंहननिनः, तेन क्षपक श्रेणि प्रतिपन्ना वज्र भनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ॥ १० ॥ १ पञ्चसंग्रह उदीरणाकरणगाथा ९ SA

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 212