________________
aira
(उ० ) — वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या ज्ञातव्याः, ये वैक्रियनाम्न उदीरका उक्तास्ते एवास्यापि ज्ञेया इत्यर्थः । केवलं बादरपवनं - बादरवायुकायिकं हित्वा - परित्यज्य शेषा द्रष्टव्याः । 'आहारगाए' त्ति आहारकशरीरनाम्न उपलक्षणादाहारकाङ्गोपाङ्गस्याहारकबन्धनस्याहारकसङ्घातस्य च विरतः - संयतः विकुर्वन् - आहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन्नुदीरको भवति । उक्तं च- ' ' आहारसत्तगस्स वि कुणइ पमत्तो विकुव्र्व्वता" ति ॥ ९ ॥
छण्हं संठाणाणं संघयणाणं च सगलतिरियनरा । देहत्था पज्जत्ता उत्तमसंघयणिणो सेढी ॥१०॥
(०) — छण्हं संठाणाणं संघयणाणं सगलतिरियनरो-पंचिदियतिरिक्खो मणुस्सो वा देहत्थो - सरीरणामाए उदये वहमाणो 'पजत्तो' त्ति-लद्धिए णियमा पज्जत्तो उदीरेति । एगवयणग्गहणा - एगो सव्वाणि संघयणसंठाणाणि न उदीरेति, जं चेव उदिण्णं तं चेव उदीरति । 'उत्तमसंघयणिणो सेढि 'त्ति-वज्ररिसभसंघयणी सेढि पडिवज्जति, सेससंघयणिणो न पडिवज्जंतित्ति निदरिसेइ ॥१०॥
(मलय ० ) – 'छण्हं'ति । सकलाः पञ्चेन्द्रियास्तिर्यश्चो मनुष्याश्च देहस्थाः - शरीरनामोदये वर्तमाना लब्ध्या पर्याप्ताः षण्णां संस्थानानां षण्णां च संहननानामुदीरका भवन्ति । इहोदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषाम् । ततो यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति तत्तदोदीर्यते, नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहननिनो-वज्र भनाराचसंहननिनः श्रेणि:- क्षपकश्रेणिर्भवति, न शेषसंहननिनः, तेन क्षपक श्रेणि प्रतिपन्ना वज्र भनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ॥ १० ॥
१ पञ्चसंग्रह उदीरणाकरणगाथा ९
SA