________________
कर्मप्रकृतिः
॥ ८ ॥
Rak
( उ० ) -- सकलाः पश्चेन्द्रियास्तिर्यश्वो नराश्च शरीरपर्याप्त्या पर्याप्ता देहस्थाः - शरीरनामोदये वर्तमानाः षण्णां संस्थानानां षण्णां च संहननानामुदीरका भवन्ति । इह येषामुदयस्तेषामेवोदीरणा प्रवर्तत इति यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति तत्तदोदीर्यते नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहन निनो वज्रर्षभनाराचसंहननिनः श्रेणिः - क्षपक श्रेणिर्भवति, न शेषसंहननिनः, तेन क्षपकश्रेण्यारूढा वज्रर्षभनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ॥ १० ॥
चउरंसस्स तणुत्था उत्तरतणु सगल भोगभूमिगया । देवा इयरे हुंडा तसतिरियनरा य सेवा ॥ ११॥
( ० ) - 'चउरंसस्स' - समचउरससंठाणस्स 'तणुत्था'- सरीरत्था 'उत्तरतणु सगल'त्ति- उत्तरसरीरा, वेउब्वियाहारगा उत्तर सरीरे वट्टमाणा पंचिंदिया, भोगभूभिगया - भोग भूमिगाय तिरिय मणुया, देवाय एए सब्वे उदीरगा । 'इतरे हुंडा,' इतरेत्ति- भणित सेसा । के ते १ एगिंदिता विगलिंदिता णेरतिगा सगलतिरियणरेसु वि अप्पज्जत्ता एते सव्वे सरीरत्था हुंडठाणस्स उदीरगा । 'तसतिरियनरा य सेवा,' इयरेत्ति अहिगारो, [पति ] तसतिरिया (य नरा) यत्ति तिरिक्खेसु जे तसकाइया विगलिंदिता, सगलतिरियणरेसु वि जे अपज्जत्तगा, एते सव्वे सेवहसंघयणस्स उदीरगा ॥ ११॥
( मलय ० ) – 'चउरंसस्स' त्ति चतुरस्रस्यैव, समचतुरस्त्र संस्थानस्यैव, तनुस्थाः - शरीरस्था उत्तरतनवः - आहारकोत्तर वैक्रियशरीरिणो मनुष्यास्तिर्यञ्चश्व, सकलाः - सकलेन्द्रियाः, पञ्चेन्द्रिया इत्यर्थः । तथा भोगभूमिगता देवाश्चोदीरका भवन्ति । 'इयरे हुंड' चि-इतरे उक्तशेषा एकेन्द्रिय विकलेन्द्रियनैरयिका अपर्याप्तकाश्च पञ्चेन्द्रियतिर्यग्मनुष्याः एते सर्वेऽपि शरीरस्था हुंडसंस्थानस्योदीरका भवन्ति ।
प्रकृत्युदीरणा
॥ ८ ॥