Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 8
________________ कादम्बरी उत्तरभागः । देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसंधिभेदम् । वन्दे सुदुर्घटकथापरिशेषसिध्यै सृष्टेर्गुरू गिरिसुतापरमेश्वरौ तौ ॥१॥ *********** मेरुः स्नानभवैः सकुङ्कुमपयःपूरैः परीतोऽभव त्पीतस्तेन सुवर्णपर्वत इति ख्यातिं जगाम क्षितौ । देवीनृत्यविशीर्णहारमणिभिस्तारो गतस्तारका ____धारोऽसाविति यज्जनिव्यतिकरः सोऽव्यावृषाङ्कः प्रभुः ॥ श्रीमाञ्शान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा ____ यं राजश्रीः सुभगमभजत्किं नु यस्य प्रभोर्न । तद्रागोऽन्तःकरणमविशब्युष्टचेष्टाविशिष्टं वार्धिस्यन्दस्तटमिव विषं भोगिचूडामणीवत् ॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवा सिद्धाः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्रदेशे स्फुटं श्रीमत्पाठकपुंगवः स जयताच्छ्रीभानुचन्द्राभिधः ॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्वं श्रीविमलाद्रिचैत्यरचनां दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥ यावन्या किल भाषया प्रगुणितान्ग्रन्थानशेषांश्च ता विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । दृष्टानेकविधानवैभवकलां चेतश्चमत्कारिणी ___ चक्रेषु स्पृहमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ प्रोच्चैः पञ्चसहस्त्रतुङ्गतुरगाश्रीसिन्धुरान्दुर्धरा न्दत्त्वा प्राग्भवसंभवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं श्रीमत्संयमयामिनीशवसुधाधीशोऽधुना त्वं भव ॥ साक्षात्कंदर्परूपः क्षितितलविदितो वाचकवातशक्रः स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वानगर्वात । धीमान्षट्शास्त्रवेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां ____टीका कादम्बरीयां निजगुरुघटितां किंचिदूनस्थितां सः ॥ स्वयं करिष्यमाणोत्तरप्रबन्धनिष्प्रत्यूहसमाप्तयेऽभीष्टसमाचारप्राप्तस्वाभीष्टदेवताप्रणतिरूपं कृतं मङ्गलं शिष्याशिक्षयितुमादावुपनिबध्नाति - देहेत्यादिना । तौ गिरिसुतापरमेश्वरौ वन्दे इति संबन्धः । तौ निरु -

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 246