Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
View full book text
________________
२३०
श्री मुनिसुन्दरसूरिविरचितः ।
ज्ञानमानधनदानवृद्धयः कान्तिकीर्त्तिधृतिबुद्धिसिद्धयः । सम्भवन्ति भविनामिह स्तवात् सर्ववस्तुषु तवैव वास्तवात् ॥ २४ ॥
ततः स्तुतिं श्रीजगदीश पार्श्व व्यधामिमां मुग्धधियाऽपि तेऽन् ।
समीहितं देह्यनयाऽपि मे द्राग्
कृपा कृपालो विदितेति हि स्यात् ॥ २५ ॥ एवं पार्श्वजिनस्य ये विदधते प्रह्लादनाऽऽहे पुरे श्रीप्रह्लादविहारभूषणमणेः सद्भक्तियुक्ताः स्तुतिम् । प्राप्यैते मुनिसुन्दरस्तवमयीं ज्ञानादिऋद्धिं परां द्वैधद्वेषिजयश्रिया शिवपुरे राज्यश्रियं प्राप्नुयुः॥२६॥ इति युगप्रधानावतारगृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे महादनपुरमण्डनप्रह्लादनविहारश्रीपार्श्वजिनस्तवनं द्वाविंशस् ।

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266