Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
________________
॥ अहम् ॥ श्रीयशोविजयबनारसजैनपाठशालोत्पादक
श्रीमदर्मविजयविरचितं प्रथमं श्रीपार्श्वनाथाष्टकम् । विभोऽङ्गिनां सौख्यतति मतिं गति
शुभां प्रशस्तां सुमनोहरां वरम् । तनोषि भो लासि ददासि सर्वदा
मयाऽपराधस्तव कीदृशः कृतः॥१॥ प्रभो मया भावविमुक्तशालिना ___ कृतं न कार्य शुभभावसंयुतम् । समस्तसाध्वादिसुसाध्यसाध्यके
भवे भवेयं सुखभाक् कदापि न ॥ २ ॥ कृपा कृपानाथ सदा विलोक्यते
कृतापराधेन जनेन नित्यशः। कृपाकृपाणः खलु यस्य सङ्गतः
कृतं हि तेनांहसनाशनं मुदा ॥ ३ ॥
Page Navigation
1 ... 260 261 262 263 264 265 266